________________
बोधप्राभृतं ।
उद्यानादिकृतां छायामपास्य स्वां तपो व्यधात् । यतोऽयमत एवास्य स्यादशोकमहाद्रुमः ॥ १९ ॥ स्वं स्वापतेयमुचितं त्यक्त्वा निर्ममतामितः । स्वयं निधिभिरभ्येत्य सेव्यते द्वारि दूरतः ॥ २० ॥ गृहशोभां कृतारक्षां दूरीकृत्य तपस्यतः । श्री मण्डपादिशोभ. स्य स्वतोऽभ्येति पुरोगतां ॥ २१ ॥ तपोविगाहनादस्य गहनान्यधितिष्ठतः । त्रिजगज्जनतास्थानसहं स्यादवगाहनं ॥ २२ ॥ क्षेत्रवास्तुसमुत्सर्गात्क्षेत्रज्ञत्वमुपेयुषः । स्वाधीनं त्रिजगतो त्रमश्यमस्त्रोपजायते ॥ २३ ॥ आज्ञाभिमानमुत्सृज्य मौनमास्थितवानयं । प्राप्नोति परमामाज्ञां सुरासुरशिरोघृतां ॥ २४ ॥ स्वामिष्टभृत्यवन्ध्वादिसामुत्सृष्टवानयं । परमात्म्य पद प्राप्तावध्यास्ते त्रिजगत्सभां ॥ २५ ॥ स्वगुणोत्कीर्तनं त्यक्त्वा त्यक्तकामो महातपाः । स्तुतिनिन्दासभो भूपः कीर्त्यते भुवनेश्वरैः ॥ २६ ॥ वन्दित्वा वन्द्यमर्हन्तं यतोऽनुष्ठितवांस्तपः । ततोऽयं वन्द्यतं वन्द्यैरनिन्द्यगुणसन्निधिः ॥ २७ ॥ तपोऽयमनुपन कः पादचारी विवाहनः । कृतवान् पद्मगर्भेषु चरणसमर्हति ॥ २८ ॥ वाग्गुप्तो हितवाग्वृत्या यतोऽयं तपसि स्थितः । ततोऽस्य दिव्यभाषा स्यात्प्रणीयन्त्यमखिलां सभां ॥ २९ ॥ अनाश्वानियताऽऽहारपारणोऽतप्तयत्तपः । तदस्य दिव्यविजय परमामृततृतयः ॥ ३० ॥ त्यक्तकामसुखो भूत्वा तपस्यस्थाश्चिरं यतः । ततोऽयं सुखसाद्भुतः परमानन्दथुं भजेत् ॥ ३१ ॥ किमत्रबहुनोक्तन यद्यदिष्टं यथाविधं । त्यजेन्मान र संकल्पस्तत्तत् सूतेऽस्य तत्तपः ॥ ३२ ॥
Jain Education International
For Private & Personal Use Only
१२५
www.jainelibrary.org