________________
१२४
षट्प्राभूतेकर्शयन् मूर्तिमात्मीयां रक्षन् मूर्तीः शरीरिणां । तपोऽधितिष्ठे दिव्यादिमूर्तीराप्तुमना मुनिः ॥५॥ स्वलक्षणमनिर्देश्यं मन्यमानो जिनशिनां । लक्षणान्यभिसंधाय तपस्येत्कृतलक्षणः ॥ ६॥ म्लापयन् स्वाङ्गसौन्दर्य मुनिरुग्रं तपश्चरेत् । वाग्छन् दिव्यादिसान्दर्यमनिवार्य परं परं ॥ ७ ॥ मलीमसानो व्युत्सृष्टस्वकायप्रभवप्रभः। प्रभोः प्रभां मुनिायन् भवेक्षिप्रं प्रभास्वरम् ॥ ८॥ स्वं मणिस्नेहदीपादितेजोऽपास्य जिनं भजन् । तेजोमयमयं योगी स्यात्तेजोवलयोज्वलः ॥९॥ त्यक्त्वाऽस्त्रवस्त्रशस्त्राणि प्राक्तनानि प्रशान्तभाक्। जिनमाराध्य योगीन्द्रो धर्म क्राधिपो भवेत् ॥ १०॥ त्यक्तस्नानादिसंस्कारः संसृत्य स्नातकं जिनं । मूर्ध्नि मेरोरवाप्नोति परं जन्माभिषेचनं ॥ ११ ॥ स्वं स्वाम्यमहि त्यक्त्वा परमस्वामिनं जिनं । सेवित्वा सेवनीयत्वमेष्यत्येष जगजनैः ॥ १५॥ .. स्वोचितासनभेदानां त्यागात्त्यक्ताम्बरो मुनिः। सिंह विष्टरमध्यास्य तीर्थप्रख्यापको भवेत् ॥ १३ ॥ स्वोपधानाद्यनादृत्य योऽभूनिरुपधिर्मुनिः। - शयानः स्थण्डिले बाहुमात्रार्पितशिरस्तटः ॥१४॥ स महाभ्युदयं प्राप्य जिनो भूत्वाऽऽप्तसक्रियः। देवैर्विरचितं दीमास्कन्दत्युपधानकं ॥ १५॥ त्यक्तशीतातपत्राणसकलात्मपरिच्छदः । त्रिभिश्छत्रैः समुद्भासिरत्नरुद्भासते स्वयं ॥१६॥ विविधव्यजनत्यागादनुष्ठिततपोविधिः।। चामराणां चतुःषष्ठया वीज्यते जिनपर्यये ॥ १७ ॥ उज्झितान (ने) कसंगीतघोषः कृत्वा तपोविधं । स्यायुदुन्दुभिनिघोषैर्युष्यमाणजयोदयः ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org