________________
बोधप्राभृतं ।
१२३
णिग्गंथे निग्रन्थे । जिणमग्गे जैनमार्गे नग्ने जिनमार्गे, वस्त्रसहितस्तु मोक्षं प्राप्नोतीति मिथ्यादृष्टिमार्गः । संखेवेणं संक्षेपेण समासेन । जहाखादं यथा मया कथितं प्रव्रज्या लक्षणं स सर्वोऽपि संक्षेप इति ज्ञातव्यमिति भावः । विस्तरस्तु गौतमस्वामिसूत्रे बोद्धव्यः ।
पव्वज्जा -- प्रव्रज्यास्वरूपं निरूपितं ।
प्रव्रज्या कोऽर्थः ? पारिव्राज्यं तस्य सूत्रपदानि सप्तविंशतिर्जिनसेना - चार्यैरुक्तानि । तथा हि
जातिर्मूर्तिश्च तत्रस्थं लक्षणं सुन्दराङ्गता प्रभामण्डलचक्राणि तथाभिर्षवनीथते ॥ १ ॥ सिंहासनोपधाने च छत्रचामरघोषणाः । अशोकवृक्षनिध्यो गृहेँशोभार्वगाहने ॥ २ ॥ क्षेत्राशे" तत्सभा कीर्ति" वंद्यता वाहनानि च । भांषाहारसुखानीति जात्यादिः सप्तविंशतिः ॥ ३ ॥
इति त्रिभिः श्लोकैः सप्तविंशतिः प्रव्रज्यासूत्रपदानि ज्ञातव्यानि । एतेषां विवरणं तैरेव कृतं वर्तते । तथा हि
जात्यादिकानिमान् सप्तविंशर्ति परमेष्ठिनाम् । गुणानाहुर्भजेदीक्षां (क्षा) स्तंषु तेष्वकृतादरः ॥ १ ॥ जातिमानप्यनुत्सिक्तः संभजेदर्हतां क्रमौ ।
यतो जात्यन्तरे जात्यां याति जातिं चतुष्टयीं ॥ २ ॥
जातौ भवा ज्यात्या तां जात्यां उत्तमां जातिं मुनिर्याति । कस्मिन जात्यन्तरे चतुःप्रकारजातिभेदे । किं कुर्वाणः : अर्हत्क्रमौ भजमानः ।
जातिरैन्द्री भवेद्दिव्या चक्रिणां विजयाश्रिता । परमा जातिरार्हन्त्ये स्वात्मोत्था सिद्धिमीयुषाम् ॥ ३ ॥ मूर्त्यादिष्वपि नेतव्या कल्पनेयं चतुष्टयी | पुराणशैरसंमोहात्क्वचिच्च त्रितयी मता ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org