________________
१२२
षट्प्राभूते
आकर्ष्याचारसूत्रं मुनिचरणविधेः सूचनं श्रद्दधानः - सूक्तासौ सूत्रदृष्टि१रधिगमगतेरर्थसार्थस्य बीजैः । कैश्चिजातोपलब्धरसमशमवशाद्वीजदृष्टिः पदार्थान्
संक्षेपेणैव बुद्ध्वा रुचिमुपगतवान् साधु संक्षेपदृष्टिः ॥२॥ यः श्रुत्वा द्वादशाङ्गी कृतरुचिरिह तं विद्धि विस्तारदृष्टिं
संज्ञातात्कुितश्चित्प्रचनवचनान्यन्तरेणार्थदृष्टिः । दृष्टिः साङ्गाङ्गन्बाहाप्रवचनमवगाहोत्थिता याऽवगाढा
कैवल्यालोकितार्थे रुचिरिह परमावादिगाढेति रूढा ॥३॥ सुद्धा गुणेहिं सुद्धा या प्रव्रज्या गुणैः कृत्वा शुद्धा सा शुद्धा कथ्यते न तु वेषमात्रेण शुद्धाच्यते । पव्वज्जा एरिसा भणिया प्रव्रज्या दीक्षेदृशी भणिता प्रतिपादिता शान्तिनाथेनेति शेषः ।
एवं आयत्तणगुणपज्जत्ता बहुविसुद्धसम्मत्ते । णिग्गंथे जिणमग्गे संखेवेणं जहाखादं ।। ५९ ॥
एवं आत्मन्वगुणपर्याप्ता बहुविशुद्वसम्यक्त्वे ।
निम्रन्थे जिनमार्गे संक्षेपेण यथाख्यातम् ॥ एवं पूर्वोक्तप्रकारेण । आयत्तणगुणपज्जत्ता आत्मत्वगुणपर्याप्ता परिपूर्णा, आत्मभावनागुणरहितेयं प्रव्रज्या परिपूर्णा न भवति, आत्मगुणभावनासहिता तु स्तोकापि प्रव्रज्या पर्याप्ता सम्पूर्णा भवतीति भावार्थः। बहुविसुद्धसम्मत्ते बहुविशुद्धसम्यक्त्वे मुनौ प्रव्रज्या पर्याप्ता भवति मिथ्यात्वदूषिते तु नग्नेऽपि मुनौ दीक्षा अदीक्षा भवति संसारविच्छदरहितत्वात् । उत्कृष्टतया नवमवेयकपदं लब्ध्वापि मिथ्यादृष्टयस्तपस्विनः पुनः संसारे पतन्तीति ज्ञात्वा पुनः पुनः भणामि सम्यक्त्ववता मुनिना भवितव्यं । उक्तं चानेनैव भगवता कुन्दकुन्दाचार्येण
सम्मं चेव य भावे मिच्छाभावे तहेव बोद्धव्वा । चइऊण मिच्छभावे सम्मम्मि उवडिदे वंदे ॥१॥ १ सम्यंच एव भावा मिथ्यात्वभावाः तथैव बोद्धव्याः त्यक्त्वा मिथ्यात्वभावान् सम्यक्त्वे उपस्थितान् वन्दे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org