________________
बोधप्राभृतं । ध्यायेन वाचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशलक्षणेन पंचविधेन युक्ता प्रव्रज्या भवति, ध्यानेन धर्म्यध्यानशुक्लध्यानद्वयेन युक्ता आर्त्तरौद्रदुर्ध्यानद्वयरहिता । पव्वज्जा एरिसा भणिया प्रव्रज्या जैनी दीक्षा ईदृशी एतलक्षणविराजमाना भाणता प्रतिपादिता अकलङ्कदेवेनेति शेषः ।
तववयगुणेहिं सुद्धा संजमसम्मत्तगुणविसुद्धा य । सुद्धा गुणेहिं सुद्धा पव्वजा एरिसा भणिया ॥ ५८॥ तपोव्रतगुणैः शुद्धा संयमसम्यक्त्वगुणविशुद्धा च । शुद्धा गुणैः शुद्धा प्रव्रज्या ईदृशी भणिता ॥ तववयगुणेहिं सुद्धा तपोभिरिच्छानिरोधलक्षणैदिशभिः, व्रतैरहिं. सादिभिः पंचभिः रात्रिभोजनपरिहारव्रतषष्ठैः, गुणैश्चतुरशीतिलक्षलक्षणैः शुद्धा उज्वला । संजमसम्मत्तगुणविसुद्धा य संयमा इन्द्रियप्राणसंयमलक्षणा द्वादश, सम्यक्त्वानि दशप्रकाराणि द्वित्रिप्रकाराणि च, ते च ते गुणा आत्मोपकारकाः परिणामविशेषास्तैर्विशुद्धा निर्मला प्रव्रज्या भवति । निसर्गजमधिगमजं सम्यक्त्वं द्विविधं, उपशमवेद कक्षायिकभेदात्सम्यक्त्वं त्रिविधं ।
"आज्ञामार्गसमुद्भवमुपदेशात्सूत्रबीजसंक्षेपात् ।
विस्तारार्थाभ्यां भवमवपरमावादेगाढंच" इत्यार्याकथिता: सम्यक्त्वस्य दशप्रकारा ज्ञातव्याः । तद्विवरणं वृत्तत्रयं यथा--
आज्ञासम्यक्त्वमुक्तं यदुत विरुचितं वीतरागाशयैव । त्यक्तग्रन्थप्रपंचं शिवममृतपथं श्रद्दधन्मोहशान्तेः। मार्गश्रद्धानमाहुः पुरुषवरपुराणोपदेशोपजाता.
या सद्ज्ञानागमाब्धिप्रसृतिभिरुपदेशादिरादेशि दृष्टिः ॥ १॥ १ द्वादशमे पृष्ठेऽप्युक्ताः । २ एते त्रयः श्लोकाः त्रयोदशमे पृष्ठेऽप्युक्ताः सविवरणाः ।
Jain Education International
al
For Private & Personal Use Only
www.jainelibrary.org