SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ षट्प्राभूते तिलतुषमात्रसमोऽपि बाह्यग्रन्थस्य संग्रहो नास्ति न विद्यते । पावज्ज हवइ एसा प्रव्रज्या भवत्येषा । जह भणिया सव्वदरिसीहिं यथा भणिता सर्वदर्शिभिः सर्वज्ञदवारति । उवसग्गपरिसहसहा णिज्जणदेसे हि णिच्च अत्थेइ । सिल कठे भूमितले सव्वे आरुहइ सव्वत्थ ।। ५६ ।। उपसर्गपरीषहसहा निर्जनदेशेहि नित्यं तिष्ठति । शिलायां काष्ठे भूमितले सर्वाणि आरोहति सर्वत्र ॥ उवसग्गपरिसहसहा उपसर्गाश्च तिर्यम्मानवदेवाचेतनभवाश्चतुःप्रकाराः, परीषहाश्च पूर्वोक्ता द्वाविंशतिः उपसर्गपरीषहास्तान् सहते तेषु वा सहा समर्था उपसर्गपरीषहसहा । णिज्जगदेसे हि णिच अत्थेइ निर्जनदेशे मनुष्यरहितप्रदेशे वने हि-स्फुटं नित्यं तिष्ठते । सिल कहे भूमितले शिलायां दृषदि, काष्ठे दारुफल के, भूमितले भूमौ तृणायां वा। सव्वे आरुहइ सव्वत्थ एतानि सर्वाणि, आर.हति उपविशति शेते च सर्वत्र वने ग्रामनगरादौ वा। पसुमहिलसंढसंगं कुसीलसंगं ण कुणइ विकहाओ। सज्झायझाणजुत्ता पव्वज्जा एरिसा भणिया ॥ ५७ ॥ पशुमहिलाषण्ढसंगं कुशीलसंगं न करोति विकथाः । स्वाध्यायध्यानयुक्ता प्रव्रज्या ईदृशी भणिता ॥ पसुमहिलसंढसंगं यत्र पशवो भवन्ति तत्र न स्थीयते, यत्र महिला भवन्ति यत्र घंढा नपुंसकानि भवन्ति तत्र न स्थीयते । कुसीलसंग ण कुणइ विकहाओ कुशीलस्य कुत्सिताचारस्य साधुलोकशिक्षापरामुखस्य संगं न करोति-तत्संगतो दुर्ध्यानमुत्पद्यते, न करोति विकथाश्च राजकथास्त्रीकथाभोजनकथाचोरकथाश्चेति । सज्झायझाणजुत्ता स्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy