________________
११९
बोधप्राभृतं । प्रव्रज्या दीक्षा ईदृशी भणिता प्रतिपादिता चतुर्विंशतितमेन तीर्थकृतेति शेषः।
जिणमग्गे पव्वज्जा छहसंघयणेसु भणिय णिग्गंथा। भावंति भव्बपुरिसा कम्मक्खयकारणे भणिया ॥५४॥
जिनमार्गे प्रव्रज्या षट्संहननेषु भणिता निम्रन्था ।
भावयन्ति भव्यपुरुषाः कर्मक्षयकारणे भणिता ॥ जिणमग्गे पव्वज्जा जिनमार्गे आहेतशासने प्रव्रज्या दीक्षा । छहसंघयणेसु षट्-संहननेषु वज्रर्षभनाराचवज्रनाराचनागचार्धनाराचकीलिकाप्राप्तासृपाटिकनामसु षट्सु संहननेषु । भणिय णिग्गंथा भणिता प्रतिपादिता श्रीन्द्रभूतिनामगणधरदेवेनेति शेषः । कथंभूता भणिता, निग्रन्था यथाजातरूपधारिणी यतोऽस्मिन् क्षेत्रेऽन्त्यो निग्रन्थो वीराङ्गजो यो भविष्यति पंचमकालस्यान्ते स किलाप्राप्तासृपाटिको संहननो भविष्यति तेन षष्ठेऽपि संहनने निग्रन्थप्रव्रज्या ज्ञातव्या । भावंति भव्वपुरिसा भावयन्ति मानयन्ति एतद्वचनं, के ? भव्यपुरुषा आसन्नभव्यजीवाः । कम्मक्खयकारणे भणिया पारम्पर्येण कर्मक्षयकारणे मोक्षप्राप्तिनिमित्तं भणिता प्रतिपादिता । तिलओसत्तनिमित्तं समबाहिरगंथसंगहो णत्थि । पावज्ज हवइ एसा जह भणिया सव्वदरिसीहिं ॥ ५५॥ तिलकोशवमात्रं समबाह्यग्रन्थसंग्रहो नास्ति । प्रव्रज्या भवतेि एषा यथा भणिता सर्वदर्शिभिः ॥ तिलओसत्तनिमित्तं तिलस्य पितृप्रियबीजस्य कोशत्वमानं तिलतुषमात्रमपि अश्रमणपरिग्रहः । समबाहिरगंथसंगहो णत्थि
३ अत्रस्थले सर्वत्र एतादृगव पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org