SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ११८ षट्प्राभते विवरीयमृढभावा विपरीतमूढभावा विशेषेण परि समन्तात् इतो गतो नष्टो मूढभावो जडतास्वरूपं यस्याः सा विपरीतमूढभावा। पणहकम्मह णहमिच्छत्ता प्रणष्टानि कर्माण्यष्टौ यस्यां सा प्रणष्टकाष्टा नष्टमिथ्यात्वा पंचमिथ्यात्वरहिता । उक्तं च एयंत बुद्धदरिसी विवरीओ बंभ तावसो विणओ। इंदो वि य संसयिदो मक्कडियो चेव अण्णाणी ॥१॥ अस्या अयमर्थः-सर्वथा क्षणविनाशवादी बुद्धः । ब्रह्मवादी विपरीतः आत्मानं शाश्वतमेवैकान्तेन मन्यते । तापसो वैनयिकः सर्वविनयेन मोक्षं मन्यते गुणदोषविचारणा तन्मते नास्ति । इन्द्रचन्द्रनागेन्द्रवादी संशयमिथ्यादृष्टि: चतुरपरजैनाभासाश्च । संशयवादी किलैवं मन्यते---- सेयंबरो य आसंबरो य बुद्धो य तह य अण्णो य । समभावभावियप्पा लहेइ मोक्खं ण संदेहो ॥१॥ मस्करपूरणः खल्वेवं वदति अण्णाणादो मोक्खं जाणं णस्थित्ति मुक्कजीवाणं । पुणरागमणं भमणं भवे भवे णस्थि जीवाणं ॥१॥ सम्मत्तगुणविसुद्धा सम्यक्त्वमेव गुणस्तेन विशुद्धा निर्मला, अथवा सम्यक्त्वगुणैनिःशंकितनिष्कांक्षितनिर्विचिकित्सितामूढदृष्टयुपगृहनस्थिती करणवात्सल्यप्रभावनालक्षणैरष्टभिः सम्यक्त्वगुणैर्विशुद्धा विशेषेण निर्मला पंचविंशतिदोषरहिता सम्यक्त्वगुणविशुद्धा । पव्वज्जा एरिसा भणिया , एकान्तो बुद्धदर्शी विपरीतो ब्राह्मणः तापसः विनयः । _इन्द्रोऽपि च संशयितः मस्करी चैवाज्ञानी ॥१॥ २ अस्याः छाया पूर्व द्वादशमे पृष्ठे गता। ३ अज्ञानतो मोक्षं ज्ञानं नास्तीति मुक्तजीवानां । पुनरागमनं भ्रमणं भवे भवे नास्ति जीवानाम् ॥१॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy