________________
बोधप्रभृतं ।
११७ प्रदेशान् हन्ति गच्छतीति निरायुर्हा | संता शान्तरूपा अक्रूरस्वभावा । परकियनिलय निवासा परेण केनचित्कृते निलये उपाश्रये निवासः स्थितिर्यस्यां सा परकृत निलयनिवासा सर्पवत् । पव्वज्जा एरिसा भणिया प्रत्रज्या दीक्षेदृशी भणिता प्रतिपादिता प्रियकारिणीपुत्रेणेति शेषः ।
उवसमखमदमजुत्ता सरीरसकारवजिया रुक्खा । मयरायदोसरहिया पव्वज्जा एरिसा भणिया ।। ५२ ।।
उपशमक्षमादमयुक्ता शरीरसत्कारवर्जिता रुक्षा ।
मदरागर्दोषरहिता प्रव्रज्या ईदृशी भणिता ॥
उवसमखमदमजुत्ता उपशमेन कर्मक्षयेण निर्जरया संवरेण अक्रूरपरिणामेन वा युक्ता, क्षमया उत्तमक्षमया युक्ता । उक्तं च शुभचन्द्रेण योगिना
आकृष्टोऽहं हृतो नैव छतो वा न द्विधाकृतः । मारितो न हतो धर्मो मदीयोऽनेन बन्धुना ॥ १ ॥ दमेन युक्ता जितेन्द्रिया व्रतोपपन्ना वा । सरीरसक्कारवज्जिया शरीरसंस्कारवर्जिता दन्तनखकेश मुखाद्यवयत्रशृङ्गाररहिता | रुक्खा तैलाद्यभ्यंगरहिता । मयरायदोसरहिया मदरहिता मायारहिता वा, प्रीतिलक्षणरागरहिता, अप्रीतिलक्षणदोषरहिता दोषो वा त्रतादिष्वतीचारस्तेन रहिता । पव्वज्जा एरिसा भणिया प्रत्रज्या दीक्षेदृशी भणिता प्रतिपादिता सिद्धार्थनन्दनेनेति शेषः ।
विवरीयमूढभावा पण कम्मट्ट पहमिच्छत्ता ।
सम्मत्तगुणविसुद्धा पव्वज्जा एरिसा भणिया ॥ ५३ ॥ विपरीतमूढभावा प्रणष्टकर्माष्टा नष्टमिथ्यात्वा । सम्यक्त्वगुणविशुद्धा प्रव्रज्या ईदृशी भणिता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org