________________
१३२
षट्प्राभृतेभावरहितेन सत्पुरुष ! अनादिकालं अनन्तसंसारे ।
ग्रहीतोज्झितानि बहुशः बाह्यनिर्ग्रन्थरूपाणि ॥ भावरहिएण सउरिस भावरहितेन सत्पुरुष ! भावविविजितेनात्मरूपभावनारहितेन त्वया । अणाइकालं अणंतसंसारे अनादिकालमनन्तसंसारे । गहिउज्झियाई बहुसो गृहीतान्युज्ज्ञितानि च बहुशोऽनेकवारान् । बाहिरनिग्गंथरूवाई बहिर्निग्रन्थरूपाणि आस्मरूपभावनारहितानीति भावार्थः ।
भीसणणरयगईए तिरियगईए कुदेवमणुगइए। पत्तोसि तिव्वदुक्खं भावहि जिणभावणा जीवं ॥ ८ ॥
भीषणनरकगतौ तिर्यग्गतौ कुदेवमनुष्यगतौ ।
प्राप्तोऽसि तीव्रदुःखं भावय जिनभावना जीव ! ॥ भीसणणरयगईए भीषणा भयानका या नरकगतिस्तस्यां भीषणनरकगत्यां । तिरियगईए तिर्यग्गत्यां । कुदेवमणुगइए कुत्सितदेवकुत्सितमनुष्यगत्योर्विषये । पत्तोसि तिव्वदुक्खं प्राप्तोऽसि तीव्रदुःखं एकान्तेन दुःखं । भावहि जिणभावणा जीव यया विना त्वं तीनं दुःखं प्राप्तश्चतुर्गतिषु तां भावय जिनभावनां जिनसम्यक्त्वभावनां हे जीव ! हे आत्मन् ! बहिरात्मत्वं मिथ्यादृष्टित्वं परित्यज्य सम्यग्दृष्टिर्भव त्वं, । तेन तव चतुर्गतिदुःखं विनंक्ष्यति स्तोकेन कालेनाल्पभवान्तरण तीर्थकरो भूत्वा मुक्तिं यास्यसि । तथा चोक्तं----
एकापि समर्थेयं जिनभक्तिर्दुतिं निवारयितुं । पुण्यानि च पूरयितुं दातुं मुक्तिश्रियं कृतिनः॥१॥ कासौ जिनभावना ? लोकप्रसिद्धं दोधकमिदम्----
१ जीवा. ग । जीवो. घ.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org