SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ बोधप्राभृतं । कच्छं खेत्तं वसहिं वाणिजं कारिऊण जीवंतो । तो सीलनीरे पावं पउरं समज्जेदि ॥ २ ॥ पव्वज्जा एरिसा भणिया प्रव्रज्या दीक्षा ईदृशी भणिता । घणघण्णवत्थदाणं हिरण्णसयणासणाइ छत्ताइ । कुद्दाणविरहरहिया पव्वज्जा एरिसा भणिया ॥ ४६ ॥ धनधान्यवस्त्रदानं हिरण्यशयनासनादि छत्रादि । कुदानविरहरहिता प्रव्रज्या ईदृशी भणिता ॥ घणघण्णवत्थदाणं धनं गवादि, धान्यं गोधूमादि, वस्त्रं पट्टाम्बरादि एतेषां दानं विश्राणनं मुनयो न कुर्वन्ति । हिरण्णसयणासणाइ छताइ हिरण्यं रूप्यघटितं नाणकं सुवर्णघटितं नाणकं ताम्ररूप्यमिश्रघटितं नाणकं केवलताम्रारिघटितं नाणकं हिरण्यमुच्यते तद्दानं मुनयो न कुर्वन्ति । शयनं अष्टशल्या खट्वा पल्यङ्कः तद्दानं मुनयो न कुर्वन्ति । आसनं पीठं आदिशब्दात् पट्टलं, छत्रमातपत्रं आदिशब्दाद्ध्वजाचामरादिकं मुनयो न ददति । कुद्दाणविरहरहिया कुत्सितदानस्य विशेषेण रस्त्यागस्तेन रहिता । पव्वज्जा एरिसा भणिया प्रत्रज्या दीक्षेदृशी भणिता श्री गौतमस्वामिना वीरेण तीर्थकृता प्रतिपादिता । इत्यनेन येऽनन्त सरस्वती नरसिंहभारती वासुदेव सरस्वतीप्रभृतयः सांन्यासिका अपि सन्तः कुत्सितानि दानानि ददति तन्मतं निराकृतमिति भावः । १११ सत्तू मित्ते व समा पसाणंदाअलद्धिलद्धिसमा । तणकणए समभावा पव्वज्जा एरिसा भणिया ॥ ४७ ॥ शत्रुमित्रे च समा प्रशंसानिन्दाऽलब्धिलब्धिसमा । तृणकनके समभावा प्रव्रज्या ईदृशी भणिता ॥ सत्तू मित्ते व समा रात्रौ वैरिणि, मित्रे सुहृदि समा रागद्वेषरहिता । पसंसर्णिदाअलद्धिलद्धिसमा प्रशंसायां गुणस्तुतौ, निन्दायामवर्णवादे, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy