SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ११२ पट्प्राभृते लब्धौ निरन्तरायभोजने, अलब्धौ भोजनाद्यन्तराये च समा सदृशी प्रव्रज्या भवति । तणकणए समभावा तृणे, कनके सुवर्णे च, समभावा अनादरादररहिता । पव्वज्जा एरिसा भणिया प्रत्रज्या ईदृशी भणिता चिरन्तनाचार्यैः प्रतिपादिता । उत्तममज्झिमगेहे दारिदे ईसरे निरावेक्खा | सव्वत्थ गिहिदपिंडा पव्वज्जा एरिसा भणिया ॥ ४८ ॥ उत्तममध्यम गेहे दरिद्रे ईश्वरे निरपेक्षा । सर्वत्र गृहीतपिण्डा प्रव्रज्या ईदृशी भणिता ॥ उत्तममज्झिमगेहे उत्तमगृहे उत्तङ्गतोरणादिसहिते राजसदनादौ, मध्यमगेहे नीचैर्गृहे तृणपर्णादिनिर्मिते, निरपेक्षा उच्चैर्गृहं भिक्षार्थ गच्छामि नीचैर्गृहं अहं न व्रजामि न प्रविशामीत्यपेक्षारहिता प्रव्रज्या भवति । दारिद्दे ईसरे निरावेक्खा दरिद्रस्य निर्धनस्य गृहं न प्रविशामि, ईश्वरस्य धनवतो गृहे प्रविशाम्यहं निवेशे इत्यपेक्षारहिता प्रवज्या भवति । सव्वत्थ गिहिदपिंडा सर्वत्र योग्यगृहे गृहीतपिण्डा स्वीकृताहारा प्रवज्या ईदृशी भवति । किं तदयोग्यं गृहं यत्र भिक्षा न गृह्यते इत्याह गायकस्य तलारस्य, नीचकर्मोपजीविनः । मालिकस्य विलिंगस्य वेश्यायास्तैलिकस्य च ॥ १ ॥ अस्यायमर्थः-गायकस्य गन्धर्वस्य गृहे न भुज्यते । तलारस्य कोटपालस्य, नीचकर्मोपजीविनः चर्मजलशकटादेर्वाहकादेः श्रावकस्यापि गृहे न भुज्यते । मालिकस्य पुष्पोपजीविनः, विलिंगस्य भरटस्य, वेश्याया गणिकायाः, तैलिकस्य घांचिकस्य । दीनस्य सूतिकायाश्च छिपकस्य विशेषतः । मद्यविक्रयिणो मद्यपायिसंसर्गिणश्च न ॥ २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy