________________
११०
षट्प्राभूते
न्दनागुर्वादि । चतुर्दशाभ्यन्तरपरिग्रहरहिताः । के ते चतुर्दशाभ्यन्तरप
T
रिग्रहाः :
मिथ्यात्ववेदौ हास्यादिषट् कषायचतुष्टयं । रागद्वेषौ च संगाः स्युरन्तरङ्गाश्चतुर्दश ॥ १ ॥ वावीसपरीसहाजि अकसाया द्वाविंशतिपरीपहजित्प्रव्रज्या भवति के ते द्वाविंशतिपरीषहाः ? क्षुधाजयः, पिपासा - तृषाजयः, शीतजयः, उष्णजयः, दंशमशकसर्वोपघातसहनं, नग्नत्वसहनं, अरतिजयः, स्त्रीपरोषहजयः, चर्या - गमनं तस्य जयः, निषद्या उपवेशनं तस्य जयः, शय्यासहनं, ओक्रोशजयः अनिष्टवचनसहनं, वधसहनं, याचनसहनं न किमपि याचते, अलाभसहनमन्तरायसहनं, रोगसहनं, तृणस्पर्शसहनं, मलसहनं लोचसहनं च, सत्कारपुरस्कारः पूजाया अकरणस्य सन्मानाग्रासनादानस्य च सहनं सत्कारपुरस्कारजयः, प्रज्ञापरीषहजयो ज्ञानमदनिरासः अज्ञानोऽयमिति वचनसहनमज्ञानपरीषहजयः, अदर्शनपरीषहजयो लब्ध्यभावसहनं । तथा चोक्तमुमास्वामिना -
क्षुत्पिपासाशीतोष्णदंशमशक नाग्न्यारतिस्त्रीचर्या
"
निषद्याशय्याक्रोशवधयाचनाऽलाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाऽज्ञानादर्शनानि ॥
अकसाया- कषायरहिता प्रव्रज्या भवति । पावारंभविमुक्का पापारम्भविमुक्ता सेवाकृषिवाणिज्यादि पापारंभस्तस्माद्विमुक्ता । इत्यनेन किमुक्तं भवति यद्दाविडसंघा जैनाभासा वदन्ति तत्प्रत्युक्तं-
बीऐसु णत्थि जीवो उब्भसणं णत्थि फासुगं णत्थि । सावअं ण हु मण्णइ ण गणइ गिहकपियं अहं ॥ १ ॥ १ बीजेषु नास्ति जीवः उद्भाशनं नास्ति प्रासुकं नास्ति । सावद्यं न हि मन्यते न गणयति गृहकल्पितं आर्तं ॥ १ ॥ कच्छं क्षेत्रं वसतिं वाणिज्यं कारयित्वा जीवन् । स्नान् शीतलनीरे पापं प्रचुरं समर्जयति ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org