SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ बोधप्राभतं । १०९ पेता निष्परिग्रहा अश्रवणप्रायोग्यपरिग्रहपरित्यक्ता रजनिभोजनवर्जिन एतद्वेध्यं वस्तु निश्चयेनेच्छन्ति मानयन्ति जिनवचनप्रमाणकारित्वात् । पंचिंदियसंजया निरावेक्खा पंचेंद्रियाणि संयतानि बद्धानि निजविषयेषु प्रवर्तितुं व्यावृत्तानि निषिद्धानि यैस्ते पंचेन्द्रियसंयताः । निरपेक्षाः प्रत्युपकारवाञ्छारहिता भव्यजीवसम्बोधनपरा एतद्वेध्यं नीच्छन्ति । सज्झायझाणजुत्ता स्वाध्यायध्यानयुक्ताः । स्वाध्यायः पंचप्रकारः, वाचना-शिष्याणां व्युत्पत्तिनिमित्तं शास्त्रार्थकथनं, पृच्छनाअनुयोगकरणं, अनुप्रेक्षा-पठितस्य व्याकृतस्य च शास्त्रस्य पुनश्चेतसि चिन्तनं, आम्नाय:-शुद्धपठनं, धर्मोपदेशः-महापुराणादिशास्त्रस्य मुनीनां श्रावकादीनामग्रतो व्याख्यानविधानं । ध्यान-आर्तध्यानरौद्रध्यानद्वयं परिहृत्य धर्मध्यानशुक्लध्यानद्वये प्रवर्तनं विधिनिषेधरूपं । मुगिवरवसहा णिइच्छंति मुनिवरवृषभाः सर्वपापण्डिभ्योऽधिकश्रेष्ठाः सर्वलोकप्रशंसनीयाः परमार्थयतयः दिगम्बरा नि-अतिशयेनेच्छन्ति वेध्यं वाञ्छन्ति पुनःपुनरभ्यासं कुर्वन्ति । गिहगंथमोहमुक्का वावीसपरीसहाजि अकसाया। पावारंभविमुक्का पयजा एरिसा भणिया ॥ ४५ ॥ गृहग्रन्थमोहमुक्ता द्वाविंशतिपरीषहजिदकषाया। पापारम्भविमुक्ता प्रव्रज्या ईदृशी भणिता ॥ गिहगंथमोहमुक्का गृहस्य निवासस्य, ग्रन्थस्य परिग्रहस्य बाह्यस्य दशप्रकारस्य मोहेन मुक्ता ममेदं भावरहिता प्रव्रज्या दीक्षा भवति । के ते दश बाह्यपरिग्रहा: ? क्षेत्रं सस्याधिकरणं । वास्तु गृ । हिरण्यं रूप्यद्रम्मादि । सुवर्ण कांचनं । धनं गोमहिध्यादि । धान्यं ब्रीह्यादि । दासी कर्मकरी । दार: नपुंसकवर्गः कर्मकरः । कुप्यं क्षौमकासकौशेयच Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy