________________
१०८
षट्प्राभृते
नवनवचतुःशतानि च सप्त च नवतिः सहस्रगुणिता षट् च । पंचाशत्पंचवियत्प्रहताः पुनरत्र कोट्योऽष्टौ प्रोक्ताः ॥ १ ॥ अकृत्रिमचत्यालयानां संख्या यथा -- एकाशीत्यधिक चत्वारि शतानि सप्तनवतिसहस्राणि षट्पंचाशल्लक्षाणि अष्टौ कोटयो भवंति । एकैकचैत्यालयेऽष्टाधिकं शतं प्रतिमानां भवति । तासां संख्या यथा-
वकोडिसया पणवीसा लक्खा छप्पण्ण सहससगवीसा । चउसैय तह अडयाला जिणपडिम अकिट्टिमं वंदे ॥ १ ॥ नवशतकोटयः पंचविशतिकोटयश्च पैट्पंचाशल्लक्षाः सप्तविंशतिसहस्राचत्वारि शतानि अष्टचत्वारिंशदधिकानि भवन्ति । ज्योतिषां व्यन्तराणां च चैत्यालयानां संख्या नास्ति । जिणमग्गे जिणवरा विंति जिनमार्गे जिनशासने जिनवरा विदन्ति जानन्ति । सत्वं, तीर्थ, शास्त्र, पुस्तकं, जिनभवनं, प्रतिमाश्च एतत्सर्वं वेध्यं मुनीनां श्रात्रकाणां च सम्यदृष्टीनां वेध्यं ध्यानावलम्बनीयं वस्त्वर्हन्तः कथयन्ति । तद्ये न मानयन्ति ते मिथ्यादृष्टो भवन्तीति भावार्थः ।
पंचमहव्वयजुत्ता पंचिदियसंजया निरावेक्खा | सज्झायझाणजुत्ता मुणिवरवसहा णिइच्छंति ॥ ४४ ॥
पञ्च महाव्रतयुक्ताः पंचेन्द्रियसंयता निरापेक्षा । स्वाध्यायध्यानयुक्ता मुनिवरवृषभा नीच्छन्ति ॥
पंचमहव्वयजुत्ता पंचमहाव्रतयुक्ताः पूर्वोक्तपंचमहाव्रतयुक्ताः सर्वजीवदयाप्रतिपालका ऋषयः सत्यवचसोऽचौर्यव्रतधारिणः ब्रह्मचर्यव्रतो
२ नवकोटिशतानि पंचविंशतिं लक्षाः षट्पंचाशतः सहस्राणि सप्तविंशानि | चतुःशतानि तथाऽष्टचत्वारिंशतः जिनप्रतिमाः अकृत्रिमा: वन्दे ॥ २ ॥ ३ तेवण्ण. ४ णवसय ५ त्रिपंचाश० ६ नवशत० इत्येवं रूपेण पाठेन भवितव्यं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org