________________
बोधप्राभृतं ।
१०३
गपाणेण होंति दहपाणा आयुकप्राणेन कृत्वा दशप्राणा भवन्ति । यथा आयुः शब्दः सान्तो नपुंसकलिंगे वर्तते तथा आयु इत्युकारान्तोऽ पि नपुंसके वर्तते । एवं दशप्राणा भवन्तीति ज्ञातव्यं ।
मणुयभवे पंचिंदिय जीवट्टासु होइ चउदसमे । एदे गुणगणत्तो गुणमारूढो हवइ अरुहो || ३६॥ मनुजभत्रे पंचेन्द्रियो जीवस्थानेषु भवति चतुर्दशे । एतद्गुणगणयुक्तो गुणमारूढो भवति अर्हन् ॥
मणुयभवे पंचिंदिय मनुजभवेऽर्हन् कथ्यते पंचेन्द्रियो ऽर्हन्नुच्यते । जीवाणेसु होइ चउदसमे जीवस्थानेषु मध्ये चतुर्दशे स्थानेऽर्हन् भवति अयोगकेवल्यप्यर्हन् भवतीति भावः । एदे गुणगणजुत्तो एतगुणगणयुक्तः । गुणमारूढो हवइ अरुहो गुणस्थानमा रूढोऽर्हन भवति गुणस्थानात्परतः सिद्ध उच्यते इति भावः ।
जरवाहिदुक्खरहियं आहारणिहारवेज्जियं विमलं । सिंहाण खेल सेओ णत्थि दुगंछा य दोसो य ॥ ३७॥ जराव्याधिदुः खरहितः अहारनीहारवर्जितः विमलः । सिंहाणः खेलः स्वेदः नास्ति दुर्गन्धश्च दोषश्च ॥ जरवाहिदुक्खरहियं जरारहितो व्याधिरहितः शारीरमानसागन्तुदुःख र हितोऽर्हन् भवति, प्राकृते लिंगभेदत्वात् जरवाहिदुक्खर हियं इति नपुंसकलिंगनिर्देशो ज्ञातव्यः एवमुत्तरत्रापि । आहारणिहारवज्जियं आहारनिहारवर्जितः कचलाहाररहितोऽईन् भवति नीहाररहितो बहिर्भूमिबाधारहितः । अनेन वाक्येन श्वेतपटमतं निराकृतं । विमलं शरीरे मलमर्हतो न भवति । सिंहाण खेल सेओ सिंहाणः नासायां
१ विवज्जियं मूलगाथा पाठः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org