SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ षट्प्राभृते १०४ मलो न भवति, खेला निष्ठीवनमर्हति नास्ति, स्वेदश्च शरीरे प्रस्वेदोऽईति न वर्तते । णत्थि दुगंछा य दोसो य अन्यदपि जुगुप्साहेतुभूतं किमपि पिटकादिक ( कं) अर्हति न वर्तते । दोषश्च वातपित्तश्लेष्माणोऽर्हति न वर्त्तन्ते । दसपाणा पज्जत्ती असहस्सा य लक्खणा भणिया। गोखीरसंखधवलं मंसं रुहिरं च सव्वंगे ॥ ३८ ॥ दशप्राणाः पर्याप्तयः अटसहस्राणि च लक्षणानि भणितानि । गोक्षीरशंखधवलं मांसं रुधिरं च सर्वाङ्गे ॥ दसपाणा पज्जत्ती दशप्राणाः पूर्वोक्तलक्षणा अर्हति भवन्ति, पट्पर्याप्तयश्चार्हति भवन्ति । अदृसहस्सा य लक्खणा भणिया अष्टा. धिकं सहस्रमेकं लक्षणानां भणितं। तत्र नवशतानि तिलमसकादीनि व्यञ्जनानि भवन्ति, अष्टाधिकं शतं लक्षणानां भवति । तथा चोक्तं-- प्रसिद्धाष्टसहस्रद्धलक्षणं त्वां गिरां पतिम् । नाम्नामष्टसहस्रेण तोष्टुमोऽभीष्टसिद्धये ॥१॥ तेषां लक्षणानां मध्ये कानिचिदुच्यन्ते । तथा हि। श्रीवृक्षः, शंखः, अब्जं, स्वस्तिकः, अंकुशः, तोरणं, चामरं, श्वेतच्छत्रं, सिंहासनं, ध्वजः, झषौ, कुंभौ, कूर्मः, चक्रं, समुद्रः, सरोवरं, विमानं, भवनं, नागः, नरनार्यो, सिंहः, बाणः, धनुः, मेरुः, इन्द्रः, गंगा, पुरं, गोपुरं, चन्द्रसूर्यो, जात्यश्वः, व्यजनं, वेणु, वीणा, मृदंगः, सृजौ, पट्टांशुकं, आपणः, कुंडलादीनि विचित्राभरणानि, उद्यानं फलिनं, सुपक्ककलमक्षेत्रं, रत्नद्वीपः, वज्र, मही, लक्ष्मीः , सरस्वती, सुरभिः, सौरभेयः, चूडारत्नं, महानिधिः, कल्पवली, हिरण्यं, जंबूवृक्षः, गरुडः, नक्षत्राणि, तारकाः, सौधः, ग्रहाः, सिद्धार्थपादपाः, प्रातिहार्याणि, मंगलानि, एवमादीनि अष्टो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy