SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ बोधप्राभृतं । णामे ठवणे हि य संदव्वे भावे हि सगुणपज्जाया । चउणागदि संपदिमं भावा भावंति अरहंतं ॥ २८ ॥ नाम्नि स्थापनायां हि च संद्रव्ये भावे च स्वगुणपर्यायाः। च्यवनमागतिः संपदिमं भावाः भावयन्ति अर्हन्तम् ॥ णामे नामन्यासे सति । ठवणे स्थापनान्यासे सति । हि स्फुटं । चकारः पादपूरणार्थः । संदव्वे समीचीने द्रव्यन्यासे सति । भावे य भावन्यासे च सति । सगुणपज्जाया स्वगुणा अनन्तज्ञानानन्तदर्शनानन्तवीर्यानन्तसुखसंज्ञाः अर्हन्तो भवन्तीत्युपस्कारः । स्वपर्यायाः दिव्यपरमौदारिकशरीराष्टमहाप्रातिहार्यसमवशरणलक्षणाः पर्याया अर्हन्तो भवन्तीत्युपस्कर्तव्यः । चठण स्वर्गानरकाद्वा च्यवनं। आगदि भरतादिक्षेत्रेध्वागमनं । संपत् गर्भावतारात्पूर्वमेव षण्मासान् रत्नसुवर्णपुष्पगन्धोदकवर्षणं मातुरङ्गणे भवति, अवतीर्णे सति नवमासपर्यन्तं सुवर्णरत्नवृष्टिं मातुरङ्गणे सौधर्मेन्द्रादेशात्कुवेर: करोति कनकमयपत्तनं भवति। एतत्सर्व महापुराणात्सम्पद्विवरणमर्हतो ज्ञातव्यं । इमं अर्हन्तं । भावा भव्यजीवा आसन्नतरभव्यवरपुण्डरीकाः । भावंति भावयन्ति निजहृदयकमले निश्चलं धरन्ति । कं, अरहतं श्रीमद्भगवत्सर्वज्ञवीतरागं । तथा चोक्तं-- णामंजिणा जिणणामा ठवणजिणा तह य ताह पडिमाओ। दव्वजिणा जिणजीवा भावजिणा समवसरणत्था ॥१॥ दसण अणंतणाणे मोक्खो णदृढकम्मबंधेण । णिरुवमगुणमारूढो अरहंतो एरिसो होइ ॥ २९ ॥ दर्शने अनन्तज्ञाने मोक्षो नष्टाष्टकर्मबन्धेन । निरुपमगुणमारूढः अर्हन् ईदृशो भवति ॥ १ नामजिना जिननामानि स्थापनाजिनाः तथा च तेषां प्रतिमाः । द्रव्यजिनाः जिनजीवाः भावजिनाः समवशरणस्थाः ॥१॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy