________________
९६
षट्प्राभते
दसण अणतणाणे अनन्तदर्शने सत्तावलोकनमात्रलक्षणे सति तथा अनन्तज्ञाने विशेषगोचरसाकारे सति मोक्षो भवतीति तावद्वेदितव्यं । केन कृत्वा, णटकम्मबंधेण नष्टाष्टकर्मबन्धेन । ननु" मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच केवलं " इत्युमास्वामिवचनात् चत्वार्येव कर्माण्यहतो नष्टानि कथं नष्टाष्टकर्मबन्धेनेत्युच्यते ? साधूक्तं भवता यथा सैन्यनायके पतिते सति जीवत्यपि शत्रुवृन्दे तन्मृतवत्प्रतिभासते विकृतिकारकत्वभावाभावत्तथा सर्वेषां कर्मणां मुख्यभूते मोहनीयकर्मणि नष्टे सति वेदनीयायुर्नामगोत्रकर्मचतुष्टये सत्यपि भगवतो विविधफलोदयाभावादघातीन्यपि कर्माणि नष्टानीत्युच्यते । णिरुवमगुणमारूढो निरुपमं गुणमनन्तचतुष्टयलक्षणमारूढोऽहनष्टकर्मरहित उच्यते । अरहंतो एरिसो होइ अर्हन्नीदृशो भवाति मुक्त एवोपचर्यत इति भावार्थः ।
जरवाहिजम्ममरणं चउगइगमणं च पुण्णपावं च । हंतूण दोसकम्मे हुउ णाणमयं च अरहंतो ॥ ३० ॥ ___ जराव्याधिजन्ममरणं चतुर्गतिगमनं च पुण्य पापं च ।
हत्वा दोषकर्माणि भूतः ज्ञानमयः अर्हन् ॥ . जर जरां हत्वा । वाहि व्याधि हत्वा, एतेन पदेन यन्महावीरस्वामिनः पाण्मासिकमतीमारं गेगं केवलज्ञानिनः कथयन्ति तन्मतं निरस्तं भवति । जम्म जन्म गर्भवासं हत्वा, इदमपि पदमेतत्सूचयति यद्देवनन्दाया ब्राह्मण्या उदराद्वीरं निष्काश्य क्षत्रियाया उदरे प्रवेशितवानिन्द्रस्तदप्ययुक्तं गतिदाता इन्द्र एवेति जीवस्य कर्माधानत्वं वृथा भवतीति दोषसद्भावात् । तथा मरणं हत्वा । चउगइगमणं च चतुर्गतिगमनं च हत्वा । पुण्णपावं च पुण्यं पापं च हत्वा । हतूण दोसकम्मे हत्वा विनाश्य दोषानष्टादशदोषान् । के ते ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org