________________
९२
mom
षट्प्राभूतेवयसम्मत्तविसुद्धे व्रतैरहिंसासत्यास्तयब्रह्मापरिग्रहलक्षणैः पंचभिमहाव्रतैः, सम्यक्त्वेन च पंचविंशतिमलरहितेन तत्वार्थश्रद्धानलक्षणेन, विशुद्धे विशेषेण निर्मले चर्मजलाद्यास्वादनरहिततयाऽकश्मले तीर्थे । पंचिंदियसंजदे णिरावेक्खे पंचेन्द्रियसंयते पंचेन्द्रियाणि स्पर्शनरसनघाणचक्षुःश्रोत्रलक्षणानि संयतानि बद्धानि स्पर्शरसगन्धरूपशब्दलक्षणपंचविषयरहितानि यस्मिस्तीर्थे तत्तथोक्तस्तस्मिन् पंचेन्द्रियसंयते । पुनः कथंभूते तीर्थे, निरपेक्ष बाह्यवस्त्वपेक्षारहिते आकांक्षारहिते मायामिथ्यानिदानशल्यत्रयविवर्जिते । हाएउ मुणी तित्थे स्नातु स्नानं करोतु-अष्टकर्ममलकलङ्कप्रक्षालनं करोतु-केवलज्ञानाद्यनन्तचतुष्टयसंयुक्तो भवतु, कोऽसौ मुनिः प्रत्यक्षपरोक्षज्ञानसंयुक्तो महात्मा महानुभावो जीवः, तीर्थे शुद्धबुद्धैकस्वभावलक्षणे निजात्मस्वरूपे संसारसमुद्रतारणसमर्थे तीर्थ स्नातु विशुद्धो भवतु। केन कृत्वा स्नातु, दिक्खासिक्खासुण्हाणेण दीक्षा पंचमहाव्रतपंचसमितिपंचेन्द्रियरोधलोचषडावश्यकक्रियादयोऽष्टाविंशतिमूलगुणा उत्तमक्षमामार्दवार्जवसत्यशौचसंयमतपस्त्यागाकिंचन्यब्रह्मचर्याणि दशलाक्षणिको धर्मोऽष्टादशशीलसहस्राणि चतुरशीतिलक्षगुणास्त्रयोदशविधं चारित्रं द्वादशविधं तपश्चेति सकलसम्पूर्ण दीक्षा भवति, स्त्रीप्रसंगवर्जनं द्वादशानुप्रेक्षाचिन्तनं शिक्षा जिननाथस्य, सुस्नानेन कर्मकिट्टिकरण किट्टिनिर्लोपनलक्षणेन स्नानेन स्नातु ।
जं निम्मलं सुधम्म सम्मत्तं संजमं तवं गाणं । तं तित्थं जिणमग्गे हवेइ जदि संतिभावेण ॥२७॥
यनिर्मलं सुधर्म सम्यक्त्वं संयमः तपः ज्ञानं ।
तत्तीर्थ जिनमार्गे भवति यदि शान्तभावेन ॥ जं निम्मलं सुधम्मं यन्निर्मलं निरतिचारं सुधर्म सुष्ठु शोभन चारित्रं तत्तीर्थ ज्ञातव्यं । सम्मत्तं संजमं तवं णाणं सम्यक्त्वं तत्वार्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org