________________
बोधप्राभृतं ।
सा चाप्तात् स च सर्वदोषरहितो रागादयस्तेऽप्यतयुक्तया सविचार्य सर्वसुखदं सन्तः श्रयन्तु श्रिये ॥ १ ॥
स्तं
धम्मो दयाविसुद्ध पव्वज्जा सव्वसंगपरिचत्ता । देवो ववगयमोहो उदयकरो भव्वजीवाणं ॥ २५ ॥
धर्मोदय विशुद्धः प्रव्रज्या सर्वसंगपरित्यक्ता । देवो व्यपगतमोहः उदयकरो भव्यजीवानाम् ॥
धम्मो दयावसुद्ध धर्मो दयया विशुद्धो निर्मलः, यो दयां कु-र्वन्नपि चर्मजलं पिवति, अजिनतैलमास्वादयति, कुंतुपघृतं भुंक्त, भूतनाशनमत्ति तस्य पुंसो धर्मो विशुद्धो न भवति स यतिर्वेषधार्यपि म्लेच्छो ज्ञातव्यः । पव्वज्जा सव्वसंगपरिचत्ता प्रव्रज्या सर्वसंगपरित्यक्ता भवति यो दण्डं करे करोति कम्बलमुपदधाति शंखकरनारीस्पृष्टमन्नमश्नाति स कथ प्रव्रज्यावान् भवति । देवो ववगयमोहो देवो व्यपगतमोहः, यो देवोऽर्धाङ्गे वनितां दधाति, यो देवो हृदयस्थले लक्ष्मीमुपवेशयति, यो देवो दंडं धरति, यो देवो वेश्यां चोपभुंक्ते, वसिष्टपिता भवति स कथं देवः । उदयकरो भव्वजीवाणं भव्यजीवानामुदयकरः उत्कृष्टतीर्थंकर नामशुभदायकः स देवो ज्ञातव्यः ।
देवं - इति श्रोबोधप्राभृते देवाधिकारोऽष्टमः समाप्तः । ८ । अथेदानीं गाथाद्वयेन तीर्थं निरूपयन्ति श्रीपद्मनन्दिदेवा:
९१
वयसम्मत्तविद्धे पंचिदियसंजदे णिरावेक्खे | हाउ मुणी तिथे दिक्खासिक्खासुण्हाणेण ||२६||
व्रतसम्यक्त्व विशुद्धे पञ्चेन्द्रियसंयते निरपेक्षे । स्नातु मुनिः तीर्थे दीक्षाशिक्षासुस्नानेन ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org