SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ षट्प्राभृते अत्यल्पायतिरक्षजा मतिरियं बोधोऽवधिः सावधिः। साश्चर्यः क्वचिदेव योगिनि स च स्वल्पो मनःपर्ययः ॥ दुष्प्रापं पुनरद्य केवलमिदं ज्योतिःकथागोचरं । माहात्म्यं निखिलार्थगे तु सुलभे किं वर्णयामः श्रुतेः ॥ १ ॥ गाणं - इति श्री बोधप्राभृते ज्ञानाधिकारः सप्तमः समाप्तः । ७ । अथेदानीं गाथाद्वयेन देवस्वरूपं निरूपयन्ति श्री कुन्दकुन्दचार्या: ९० सो देवो जो अत्थं धम्मं कामं सुदेह णाणं च । सो देह जस्स अस्थि दु अत्थो धम्मो य पव्वज्जा ||२४|| स देवो योऽथं धर्मं कामं सुददाति ज्ञानं च । स ददाति यस्य अस्ति तु अर्थः धर्मश्च प्रव्रज्या ॥ सो देवो जो अत्थं स देवो योऽर्थ धनं निधिरत्नादिकं ददाति । धम्मं कामं सुदेह णाणं च धर्म चारित्रलक्षणं दयालक्षणं वस्तुस्वरूपमात्मोपलब्धिलक्षणमुत्तमक्षमादिदशभेदं सुददाति सुष्ठु अतिशयेन ददाति । कामं अर्धमण्डलिक मण्डलिक महामण्डलिकबलदेव वासुदेवचक्रवतन्द्रवरणेन्द्रभोगं तीर्थकर भोगं च यो ददाति स देवः । सुष्ठु ददाति ज्ञानं च केवलं ज्योतिः ददाति । सो देह जस्स अस्थि दु स ददाति यस्य पुरुषस्य यद्वस्तु वर्तते असत्कथं दातुं समर्थः । अत्थो धम्मो य पव्वज्जा यस्यार्थो वर्तते सोऽर्थ ददाति, यस्य धर्मो वर्तते स धर्मे ददाति, यस्य प्रव्रज्या दीक्षा वर्तते स केवलज्ञानहेतुभूतां प्रव्रज्यां ददाति, यस्य सर्वे सुखं वर्तते स सर्वसौख्यं ददाति । उक्तं च गुणभद्रेण गणिना- सर्वः प्रेप्सति सत्सुखाप्तिमचिरात् सा सर्वकर्मक्षयात् सद्वृत्तात् स च तच्च बोधनियतं सोऽध्यागमात्स श्रुतेः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy