________________
युक्त्यनुशासन। खविहितेषु सपनगर्भिणीवधादिषु दोषाभावानुषंगात् । खारपटिकागमज्ञानस्याप्यप्रमाणत्वान्न तद्विहितेष्वनाचारेषु दोषाभावमसंग इति चेत्, वेदज्ञानस्य कुतः प्रामाण्यं येन तद्विहितेषु पशुवधादिषु दोषाभावो व्यवतिष्ठते । दोषवर्जित कारणैर्जन्यमानत्वादिति चेत्, न स्वरूपेऽपि वेदज्ञानस्य प्रामागयप्रसंगात, दोषाशयपुरुषेणाकृतस्य स्वरूपवादस्यापि सिद्धः।
तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् । .. . अदुष्टकारणारब्धं प्रमाणं लोकसम्मतम् ॥
कार्यवादवत् दोषवर्जितः कारगर्जन्यमानत्वाविशेषात बाधवर्जितत्वाच्चोदनाज्ञानस्य प्रामाण्यमिति चेत्, नासिद्धत्वादनाचारविधायिनश्चोदनाज्ञानस्य बाधसद्भावात् । तथा हि-पशुबधादयः प्रत्यवायहेतव एवं प्रमत्तयोगात्माणातिपातादित्वात् खरपटागमविहितसधनवधादिवत् । प्रमत्तयोगोऽसिद्ध इति चेत् न, काम्यानुष्ठानस्य रागादिप्रमादपूर्वकस्य प्रमा योगनिबंधनत्वात् । सत्यपि रागादिप्रमादयोगे पशुवधादिषु प्रत्यवायासंभवे सधनवधादिष्वपि कुतः प्रत्यवाय: संभाव्यते सर्वथा विशेषाभावात् । पशुवधादीनां स्वर्गादिश्रेयासाधनत्वान्न प्रत्यवायसाधनत्वमिति चेत्, न सधनवधादीनामपि धनश्वर्यादिश्रेयःसाधनत्वात् प्रत्यवायहेतुत्वं मा भूत्, तदात्वस्तोकश्रेयासाधनत्वेऽपि सधनवधादीनां पारत्रिकहत्तत्यवायसाधनत्वमपि विरुद्धमेवेति चेतर्हि पशुवधादीनामपि पशुलाभार्थलाभादिस्वल्पश्रेयःसाधनत्वेऽपि पारात्रिकहत्मत्य
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org