SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ टोकासहित। कथमनाचारपथेष्वदोषो निर्युष्यते । श्रद्धाविशेषश्च सम्यग्दशनं तदनुगृहीता दीक्षा सम्यग्ज्ञानपूर्विका सम्यक्चारित्रमिति सम्यग्दर्शनज्ञानचारित्रत्रयादेव सात्मीभावमापन्नान्मुक्तिरुक्ता स्यात्तथा च त्वदृष्टिरेव श्रेयसी । तद्वाह्यास्तु विभ्रपन्त्येवेति मूक्तम् । . अथवा दीक्षासं यथा भवत्येवममुक्तिमाना मीमांसकास्त्वदृष्टिबाह्या वत कष्टं विभ्रमंति ! किं कृत्वा उच्चैरनावारपथेष्वदोष निर्घष्य "न मांसभक्षणे दोषो न मद्ये न च मैथुने ।" इति वचनात् । कुत : ? इत्युपपत्तिमाचक्षते-स्वच्छंदवृत्त - गतः स्वभावादिति प्रवृत्तिरेव भूतानामिति वचनात् , न कदाचिदनीदृशं जगदित्यभ्युपगमाच । कुतस्तेषां विभ्रम इति चेत्, दोषेऽप्यदोषनिर्घोषणात् वेदविहितेषूच्चैरनाचारपथेषु पशुवधादिष्वदोषो निर्घष्यते न पुनर्वेदवाह्येषु ब्रह्महत्यादिषु तत्र दोषस्यैव निर्घोषणात्, "ब्राह्मणो न हन्तव्यः सुरा न पातव्येति" निषेधवचनात् । स्वच्छन्दवृत्तरपि जगतः स्वभावाद्वेदेन श्रेय:प्रत्यवायसाधनप्रकाशिना नियमितत्वात, तथा वेदविहितदीक्षायाश्चाप्रतिक्षेपात् पाखडिदीक्षाया एव निरसनात् । नामुक्तिमाना: श्रोत्रियाः परमब्रह्मपदावाप्तिलक्षणस्य मोक्षस्यानंदरूपस्य तैः स्वयमभ्युपगमात् । अनंतज्ञानादिरूपाया एव मुक्तनिराकरणादिति केचित् तेऽपि स्वगृहमान्या एव, वेदविहितेष्वप्यनाचारेषु दोषाभावस्य व्यवस्थापयितुमशक्तेः । खारपटिकशा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy