SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ टोकासहितं। वायसाधनत्वादेव स्वर्गादिश्रेयासाधनत्वं माभूद्विरोधात् । ऋत्विगादिदक्षिणाविशेषादीनानाथसकलजनानंदिदानविशेपाच्च श्रद्धापूर्वकव्रतनियमाभिसंबंधाच्च यजमानस्य स्वर्गादिश्रेयःसाधनत्वं पशुवधेऽपि न विरुध्यत इति चेत् किमेवं पशुवधादिना, दाक्षणादिभ्य एव श्रेयःसंप्राप्तेस्तदभावे प्रत्यवायस्यैव सिद्धेस्तस्य श्रेयःसाधनत्वासंभवात् । कथं चायं सधनवधकादीनामपि दानादिविधायिनां धर्माद्यमिसंधिश्रद्धाविशेषशालिनां स्वागमविहितमार्गादिगामिनां स्वर्गादिश्रेयाप्राप्तिप्रतिषेधसमर्थः । ननु च धर्माभिसंधीनां सधनवधादिरधहेतुर्विरुद्ध इति चेत्, पशुवधादिस्तादृक् कथमविरुद्धः ? तथा वेदविहितत्वादिति चेत् खरपटशास्त्रविहितवात्सधनवधादिरपि विरुद्धो मा भूत् । धनलोभादिनिबंधनत्वात् सधनवधादेधर्माभिसंधिविरोधे स्वर्गादिलोभनिमित्तत्वात्पशुवधादेर्धर्माभिसंधिविरोधोऽस्तु विशेषाभावात् । दृष्टार्थधनलोभादेरदृष्टार्थस्वर्गादिलोभादीनां महत्त्वाच्च तन्निबंधनस्यैव पशुवधादेर्धर्मविरोधो महानेवेति च युक्तं वक्तुं । नन्वनंतनिर्वाणसुखलोनिबंधनस्य स्वपरकायपरितापनस्याप्येवं धमविरोधः कथं महत्तमो न स्यादिति चेत् न, योगिनां निर्वाणसुखश्रद्धायामपि लोभाभावादिति ब्रूमस्तेषामात्मस्वरूपप्रतिबंधिकर्ममलविगमायैव समाधिविशेषप्रवृत्तेः कचिल्लोभमात्रेऽपि निर्वाणप्राप्तिविरोधात् । तदुक्तम्- "मोक्षेऽपि न यस्य कांक्षा स मोक्षमधिगच्छतीति" । तर्हि याशिकानामपि प्रत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy