________________
युक्त्यनुशासनं ।
वायजिहासया नित्यनैमित्तिकयोर्वेदविहितयोः प्रवृत्तेर्न स्वर्गादिलोभ निबंधनत्वमिति चेत्, किमेवं खारपटिकानां दौर्गत्यजिहासया सधनवधादिषु प्रवृत्तिर्धनलोभनिबंधनाऽभिधीयते ? दौर्गत्यजिहासैव धनलोभ इति चेत्, प्रत्यवाय जिहासैव स्वर्गादिश्रेयोलोभः कथं न स्थात् । न चैवं योगिनां संसारकारणको लोभादिनिराचिकीषैव निश्रेयसो लोभ इति वक्तुं युक्तं व्याघातात्, मोक्षार्थिनां सर्वत्रावृत्तेर्न लोभनिबंधना प्रवृत्तिरिति विषमोऽयमुपन्यासः । ततः सूक्त - मिद पशुवधा दियज्ञवादिनां वेदवाक्यानां बाधकमनुमानं, पशुवधादयः प्रत्यवायहेतवः प्रमत्तयोगात् माणातिपातादित्वात् सधनवधादिवदिति । चैत्यालयकरणादिषु नानाप्राणिगणनाशातिपातादिभिरनेकांत इति चेत्, न प्रमत्तयोगादिति वचनात्, न च चैत्यालयकरणादिषु प्रमत्तयोगोऽस्ति सम्यक्त्ववर्धनक्रियायाः समीहितत्वात्, तत्राऽपि निदान करणे प्रत्यवायहेतुत्वस्याभ्यनुज्ञानात् पक्षान्तरवर्त्तित्वान्न तैरेनैकांतिकसोद्भावयितुं युक्ता । तन्न वाधवर्जितत्वेनाऽपि चोदनाप्रमाणं बाधकस्य व्यवस्थितेः खारपटिकशास्त्रवत् अप्रमाणकं वोच्चैरनाचारपथेष्वदोषं निर्घोषयन्तः कथं न विभ्रमयंति मीमांसकाः ।
८६
इति स्वष्टवाद्यानां कष्टमनिवार्य ततस्तम एव प्ररू याज्ञिकानां सर्वचेष्टितमिति सूरयो निवेदयन्ति
प्रवृत्तिरक्तैः शमतुष्टिरिक्तै
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org