________________
टोकासहित। रुपेत्य हिंसाऽभ्युदयाङ्गनिष्ठा । प्रवृत्तितः शांतिरपि प्ररूढं
तमः परेषां तव सुप्रभातम् ॥३८॥ ___टीका-हिंसानृतस्तेयाब्रह्मपरिग्रहेषु नियममंतरेण प्रकर्षेण वृतिः प्रवृत्तिस्तत्र रक्ता मीमासकास्तथाऽभिनिवेशात् । तैरुपेत्य प्रवृत्ति स्वयं प्रतिपद्य हिंसाभ्युदयस्य स्वर्गादेरंगकारणं निष्ठा, किंभूतैस्तैः शमतुष्टिरिक्तैरिति हेतुवचनं तेन शमतुष्टिरिक्तवादित्यर्थः, क्रोधादिशान्तिः शमः, तुष्टिः सन्तोषः शमेन तुष्टिः शमतुष्टिस्तया रिक्तैरिति प्रत्येयं । तदेतत्परूढं वृहत्तमं तमः परेषां यज्ञवादिनामज्ञानत्वमित्यर्थः , तथाप्रव. चितः शान्तिरपि प्ररूढं तमः परेषां तस्याः शांतिप्रतिपक्षिवात् । प्रतिहि रागाद्यद्रेकस्य कारणं न पुनारागादिशान्तेाघातात् ।
स्यान्मतं, तेषां प्रतिद्वैधा, रागादिहेतुः शांतिहेतुश्च । तत्र या वेदवाक्येनाविहिता सा रागाद्युदयनिमित्त यथा ब्रा. झणवधसुरापानादि । वेदविहिता तु शांतिहेतुर्यथा यज्ञे पशुवधादिस्तस्या अदृष्टार्थत्वात् क्रोधाद्युदयनिबंधनत्वाभावादिति। तदप्यसत् । वेदविहितायाः प्रवृत्तेः शांतिहेतुत्वनियमानुपपत्ते: अन्यथा मातरमुपैहि स्वसारमुपैहीति वेदवाक्यविहिताया मातृस्वसृगमनलक्षणायाः प्रवृत्तेः शांतिहेतुत्वप्रसंगात् । वेदाविहिसायाश्च प्रवृत्तः सत्पात्रदानादिलक्षणायाः शांतिप्रतिपक्षत्वान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org