SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ युक्त्यनुशासन पोः अथ मतमेतत्-परंपरया प्रवृत्तिरपि शांतिहेतुरुपपद्यत एव यथा देवताराधनादिपचिरिति । तदप्यसंभाव्य, वेदविहितहिंसादिप्रवृत्तेः परंपरया शांतिहेतुत्वानुपपत्तेः । न च शान्त्यर्थिनः शांतिप्रतिकूलेषु हिंसादिषु वर्तमाना: प्रेक्षापूर्वकारिण: स्युर्मदाभावाय मद्यपाने प्रवर्त्तमानजनवत् । सत्पात्रदानदेवतार्चनादिषु स्वयमनभिसंधितसूक्ष्मपाणिवधादिप्रवृत्तिस्तु परंपरया शांतिहेतुरुपपद्यत एव दर्शनविशुद्धिपरिग्रहपरित्यागप्रधानतया तस्याः समवस्थितत्वादन्यथा तदभावविरोधात् । इति सूक्तमेतत् प्रतितः शांतिरिति वचनं महातमोविज़म्भितं परेषामिति ततस्तवैव मतं सुप्रभातं सकलनमोनिरसनपटीयस्त्वादिति सिद्धम् । साम्प्रत मतान्तरं निरचिकीर्षवः पाहुःशीर्षोपहारादिभिरात्मदुःखै र्देवान् किलाराध्य सुखाभिगृद्धाः। सिद्धयन्ति दोषापचयानपेक्षा युक्तं च तेषां त्वमृपिन येषाम् ॥३९॥ टीका-शीर्षोपहारः स्वशिरोवलिश्छागादिशिरोवलियं । स आदिर्येषां गुग्गुलधारणमकरभोजनभृगुपतनप्रकाराणां ते शीपोपहारादयस्तैरात्मदुःखर्जीवदुःखनिमित्तर्देवान् यक्षमहेश्वरादी नाराध्य सिध्यन्ति दोषापचयानपेक्षा दोषापचयमनपेक्षमाणाः सुखाभिगृद्धाः कामसुखादिलोलुपाः किलेति सूरयः प्रमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy