SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ टोकासहितं । गानुपपन्नत्वेन रुचि प्रकाशयन्ति । केषां पुनरिदं युक्तमित्यभिधीयते-"युक्तं च तेषां त्वमृपिन येपा" मिति । येषां न त्वमृषिगुरुवातदोषः सर्वहस्वामी न भवसि तेषामेव मिथ्याशी युक्तं उपपन्नमेवैतत् प्ररूढं तमो न पुनर्येषां त्वं गुरुः शुद्धिशक्त्योः परां काष्टामधितिष्ठन्नभिमतोऽसि तेषां सम्यग्दृष्टीनां हिंसादिविरतिचेतसां दयादमत्यागसमाधिनिष्ठं त्वदीयं मतमद्वितीयं प्रतिपद्यमानानां नयप्रमाणविनिश्चितपरमार्थयथावतारिजीवादितत्त्वार्थप्रतिपत्तिकुशलमनसां प्रमादतोऽशक्तितोवा कचित्पत्तिमाचरतामपि तेषां तत्राभिनिवेशपाशानवकाशात् । तदित्थं समंतदोषं मतमन्यदीयं संक्षेपतो दर्शितम् । विस्तरतो देवागमे तस्य समन्तभद्रस्वामिभिःप्रतिपादनात् “भावैकान्ते पदार्थाना" मित्यादिना । तत एव त्वदीयं मतमद्वितीयमिति च समासतो व्यवस्थितं । व्यासतो देवागमे एव तस्य तथा व्यवस्थापितत्वात् , "कथञ्चिचे सदेवेष्टं कथंचिदसदेक लद्" इत्यादिना तथैव स्वामिभिरभिधानात् । .. स्तोत्रे युक्त्यनुशासने जिनपतेर्वीरस्य निःशेषतः . संपाप्तस्य विशुद्धिशक्तिपदवीं काष्ठां परामाश्रिताम् । निर्णीतं मतमद्वितीयममलं संक्षेपतोऽपाकृतं । तद्वाह्यं वितथं मतं च सकलं सद्धीधनैर्बुध्यताम् । इति युक्त्यनुशासने परमेष्ठिस्तोत्रे प्रथमः प्रस्तावः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy