________________
युक्त्यनुशासनं। अथ भेदाभेदात्मकं सामान्यविशेषात्मकमर्थतत्त्वं मदीयं मतमद्वितीयं नयप्रमाणप्रकृतांजसार्थत्वादस्तु नाम केवलं सामान्यनिष्ठाः विशेषाः स्युर्विशेषनिष्ठं वा सामान्यं स्यादुभयं वा परस्परनिष्ठमिति भगवत्पर्यनुयोगे सूरयः प्राहुः- "सामान्यनिष्ठा विविधा विशेषाः" इति सामान्य द्विविधमूर्ध्वतासामान्य तिर्यक्सामान्यं चेति । तत्रोतासामान्य क्रमभाविषुपर्याय ध्वेकत्वान्वयप्रत्ययग्राह्य द्रव्यं । तिर्यक्सामान्य नानाद्रव्येषु पर्यायेषु च सादृश्यप्रत्ययग्राह्य सदृशपरिणामरूपं । तत्र सामान्ये निष्ठा परिसमाप्तियेषां ते सामान्यनिष्ठाः । के ते? विशेषाः पर्यायाः। किं प्रकाराः ? विविधाः केचित् क्रमभुवः केचित् सहभुव एकद्रव्र वृत्तयः। तत्र क्रमभुवः परिस्पंदरूपा उत्क्षेपणादयः,अपारस्पंदात्मकाः साधारणा साधारणासाधारणाश्च असाधारणाश्चेति त्रिविधाः । साधारणधर्माः सत्त्वप्रमेयत्वादयः, साधारणासाधारणाःद्रव्यत्वजीवत्वादयः, असाधारणाः प्रतिद्रव्यं प्रभिद्यमानाः प्रतिनियता अर्थपर्याया इति विविधप्रकारा विशेषा एकद्रव्यनिष्ठत्वादृर्ध्वतासामान्यनिष्ठास्तव्यतिरेकेणासंभाव्यमानत्वात् । नन्वेवंविधविशेषनिष्ठ सामान्यं कस्मान स्यादिति चेत्, न, कस्यचिद्विशेषस्यापायेऽपि सामान्यस्य विशेषान्तरेघूपलब्धेः सर्वविशेषनिष्ठत्वविरोधात् । कतिपयविशेषनिष्ठत्वे तु सामान्यस्य तदन्यविशेषाणां नि:सामान्यत्वप्रसंगात्। विनष्टानुत्पन्न विशेषनिष्ठत्वे सामान्यस्य वि. नाशानुत्पादमसंगो व्याहतः प्रसज्येत । विशेषाणां विनाशेऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org