SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ टोकासहितं । सामान्यस्याविनाशेनागतत्वेऽपि वर्तमानत्वे च विरुद्धधर्माध्यासात् भेदप्रसंगान विशेषनिष्ठत्वं सामान्यस्य प्रसज्येतातिप्रसंगात् । विशेषेषु व्यक्तिरूपेषु द्रव्यगुणकर्मसु सामान्यस्य समवायाद्विशेषनिष्ठं सामान्यमिति चेत् न, तस्य तिर्यक्सामान्यरूपस्वात्, न चैतदपि विशेषनिष्ठं द्रव्यत्वस्य सकलद्रव्यव्यक्तिनिष्ठत्वे कार्यद्रव्यव्यक्तिविनाशप्रसंगात्कतिपयद्रव्यव्यक्तिनिष्ठत्वे द्रव्यव्यक्त्यंतराणां निःसामान्यत्वप्रसंगम्य तदवस्थत्वात् । नित्यसर्वगतत्वात् सामान्यभ्यायमदोष इति चेत्, न, सर्वव्यक्तीनां नित्यत्वप्रसंगात्तत्र नित्यसामान्यम्य निष्ठानात् । यदि पुनयापकं सामान्यं (व्यक्तीनां) व्याप्यास्तु व्यक्तयस्ततो व्याप्याभावेऽपि व्यापकस्य सद्भावाविरोधात् सत्यपि नित्ये सामान्ये व्यक्तीनामभावाविरोधान्न नित्यतापत्तिरिति मतम् तदा सामान्यनिष्ठा एव विशेषाः स्युरवस्थिते सामान्ये विशेषाणामुत्पादाद्विनाशाचेति सिद्धाः सामान्यनिष्ठा विविधा विशेषाः, न पुनर्विशेषनिष्ठं सामान्यं । एतेन परस्परनिष्ठमुभयमित्यपि पक्षः प्रतिक्षिप्तः । ___यदि सामान्यनिष्ठा विशेषास्तदा पदं किं विशेषं नयते सामान्य वा तदुभयं वाऽनुभयं वेति शंकायामिदमभिधीयते सरिभिः- " पदं विशेषान्तरपक्षाति " विशेषं नयत इति विशेषो द्रव्यगुणकर्मभेदात् त्रिविधः । तत्र द्रव्ये प्रवर्गमानं पदं द्रव्यद्वारेण विशेषांतरंगुणं कर्म वा स्वीकरोतीति विशेपान्तरपत्तपाति, पक्षपातो हि स्वीकारः परिग्रहः सोऽस्यास्तीति Jain Education International ronal For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy