________________
पर
युक्त्यनुशासनं । पक्षपाति विशेषांतरे पक्षपाति विशेषान्तरपक्षपाति । यथा दंडीतिपदं संयोगिद्रव्यद्वारेण द्रव्ये देवदत्तादौ प्रवर्तमानं गुणमपि इंडपुरुषसंयोगलक्षणं परिगृह्णाति, कर्म च दंडगनं पुरुषगतं च परिस्पन्दलक्षणं विशेषान्तरं स्वीकरोतीति । तदस्वीकारणे दंडीतिपदस्य द्रव्ये प्रवृत्तिविरोधात् । तथा विषाणीति पदं समवायिद्रव्यविषयं समवायिविषाणिद्वारेण गवादिसमवायिनि प्रव-तपानत्वात् । तत्र च विषाणिद्रव्ये प्रवर्त्तमानं तद्गुणमपि विशेपांतरं धवलादि गृह्णात्येव, क्रियां च विशेषांतरं गवादिगतं विषाणगतं वा स्वीकरोत्येवेति विशेषांतरपक्षपातीत्युच्यते । तथा शुक्ल इति पदं, गुणद्वारेण द्रव्ये प्रवर्गमानं गुणविषयतां स्वीकुर्वत्तदन्वयद्रव्यं विशेषांतरं परिगृह्णातीति विशेषान्तरपक्षपाति । तथा चरतीति पदं क्रियाद्वारेण द्रव्ये प्रवर्तमानं क्रियाविषयतां प्रतिपद्यमानमपि विशेषांतरं तदाधारद्रव्यं तदेकार्थसमवायि कर्म च स्वीकरोतीति विशेषांतरपक्षपाति सिद्धं, विशेष नयत इति द्रव्यं गुणं कर्म च नयते प्रापयतीत्यर्थः ।
चतुर्विधं हि पदं नामाख्यातनिपातोपसर्गभेदात केचिदमंसत । कर्मप्रवचनीयं च पदमिति पचंविधमन्ये । तत्र नाम पदं किंचिद् द्रव्यमभिधचे गुणं वा, तद्वन्निपातपदं। आख्यातपदं तु क्रियानभिदधाति तथा चोपसर्गपदं तस्य क्रियोद्योतकत्वात् । कर्मप्रवचनीयपदं तु पारिभाषिकं कर्मेति संप्रतिपद्यते । तदेवं सुप्तिङन्तविकल्पाद्विविधमपि पदं चातुर्विध्यं पांचविध्यं वा समास्कन्दद्विशेषांतरवृतिसद्विशेषं नयते समान०
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org