________________
टीकासहितं। भावं समानत्वमिति । नयतेर्द्विकर्मकत्वादभिसबंधः कर्तव्यस्तदनेन प्रधानभावेन द्रव्यादिव्यक्तिरूपं विशेष गुणीभूतं सामान्यः पदं प्रतिपादयतीत्यभिहित्म्। अन्यत्पदं जातिविषयं समानभावं सामान्य विशेषं नयते यथा गौरिति पदं गोत्वजातिद्वारेणार द्रव्ये प्रवर्त्तमानं जातिपदं स्वाश्रयभूतद्रव्यविशेषमपि सामान्यरूपं प्रापयति तथा गुणत्वजातिपदं गुणत्वजातिद्वारेण गुणे वर्तमानं गुणमपि स्वाश्रयं विशेषं जातिरूपतां नयते । तथा कर्मत्वजातिपदं कर्मत्वजातिद्वारेण कर्मणि प्रवर्तमान कर्माफि स्वाधिकरणं विशेष समानभावं नयते । कुत इत्युच्यते, "अ न्तर्विशेष:न्तरचितः" इति अन्ततिं विशेषांतरमस्येत्यंतर्विशेषान्तरः समानभावः समानपरिणामस्तत्र होः प्रवर्तनासदस्येत्यर्थवशाद्विभक्तिपरिणामः । तदेतेन प्रधानभूतसामान्यं गुणीभूतं विशेष पदं प्रकाशयतीति निगदितं । ततो निर्विशेषमेव पदं न नयते सामान्यं निरपेक्षं तस्यासंभावात् खरविषाणवदिति न व्यक्तिवादे पदार्थः संगच्छते तत्र तस्यासत्यत्वप्रसंगात् । नाऽपि सामान्यं केवलं विशेषनिरपेतं पदं प्रकाशयति तस्याऽप्यसंभवात् कूरोगादिवदिति । न जाति व्यक्तिर्वाऽस्य पदार्थः समवतिष्ठते तस्यापि तन्मात्रे प्रवर्तमानश्यासत्यतापतेः । न च परस्परनिरपेक्षमुभयं पदार्थस्तस्याप्यप्रतीयमानत्वात् वंध्यापुत्रादिवत् । तत्र प्रवत्तेमानस्य पदस्यायथार्थत्वप्रसक्तेः। न चाप्यनुभयं पदमायेदयति तस्याप्यन्ययावृत्तिमात्रस्यावस्तुभूतस्य प्रतिपादने पदापतिविरोधात ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org