SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ युक्त्यनुशासन। जात्यन्तरं तु सामान्यविशेषात्मकं वस्तु प्रधानगुणभावेन पदं प्रकाशयत् यथार्थतां नातिक्रामति प्रतिपत्तः प्रवृतिप्राप्तिघटनात प्रत्यक्षादिप्रमाणादिवेति देवागमपद्यवार्तिकालंकारे निरूपितप्रायम् । तद्यथासामान्यनिष्ठा विविधा विशेषाः पदं विशेषांतरपक्षपाति। अन्तर्विशेषान्तरवृत्तितोऽन्य. समानभावं नयते विशेषम् ॥४०॥ इति वृत्तं खंडशो व्याख्यातम् । अथवा पदं किंचिद्विशेष संकेतकालवर्तिनं समानभावं नयते कुतो यस्माद्विशेषान्तरपक्षपाति, संकेतकालवर्तिनो विशेषादव्यवहारकालवर्तिविशेषोऽन्यो विशेषांतरं तत्पक्षपातिस्वादित्यर्थः । अन्यत्पदं समानभावमपि विशेष नयते कस्मादन्तर्विशेषान्तरवृत्तितः, विशेषान्तराणामन्तः अन्तर्विशेषान्तरं । अंतःशब्दस्य पूर्वनिपातो"अन्तरादेष्टा" इति ज्ञापकादन्तर्मुहूर्गवत् । अन्तर्विशेषान्तरे वृचिरन्तर्विशेषान्तरवृत्तिस्ततो विशेषान्तराणां संकेतसमयवर्तिसामान्यविशेषणविशेषेभ्योऽ. न्येषां विशेषाणामन्तर्वृत्तित्त्वाद्विशेषान्तराद्वहिर्भावादित्यर्थः । कुतः १ पुनः किंचित्पदं विशेषे द्रव्यादौ प्रवर्गमानं तं विशेष सामान्यरूपतां नयते परन्तु सामान्ये प्रवर्तमानं द्रव्यत्वादौ सामान्यमपि विशेषरूपतां प्रापयतीति चेत्, यतः सामान्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy