________________
टीकासहितं । निष्ठा विविधा विशेषा इत्युपपचिरभिहिता यस्मात् सामान्ये निष्ठा विशेषाणां तस्मात्पदं विशेषं सामान्यरूपतां नयते यस्माञ्च सामान्यमपि पदं विशेषं नयत इत्यर्थः।
किं पुनस्तत्पदं वहिर्भूत वर्णात्मकमन्तर्भूतं वा चिदात्मकमिति शंकायां पदस्य विशेषणमन्तरिति । तेनैवं व्याख्यायते यदन्तःपदं ज्ञानात्मकं तदन्यदेव वर्णात्मकपदात् विशेयांतरतितो विशेषान्तरपक्षपाति सद्विशेष समानभावं नयते न पुनर्वर्णसमूहलक्षणं वर्णानामुत्पन्नापवर्गित्वात्समूहानुपपत्तेः पदस्यैवासंभवात्। वर्णनित्यतायामपि तदभिव्यक्तेरनित्यत्वादभिव्यक्तवर्णसमूहात्मकं पदं न संभावयितुं शक्यं, गौरिति पदे गकाराभिव्यक्तिकाले तदवयवभूतयोरौकारविसर्गयोरभिव्यक्यभावात्तदभिव्यक्तिकाले च गकाराभिव्यक्तेविनाशात् । न चाभिव्यक्तानभिव्यक्तवर्णानां समूहः संभवति। यदि पुनः क्रमेगोत्पन्नानामभिव्यक्तानां वा बुद्धौ विपरिवर्तमानानां क्रमविशेवात्मकः समूहः पदमित्यभिधीयते तदाऽप्येकवर्णबुद्धिकाले वर्णान्तरबुद्धेरनुत्पनेरुत्तरवर्णबुद्धरुत्पत्तिकाले च पूर्ववर्णबुद्धः प्रध्वंसानैकबुद्धौ वर्णानां नानात्मनां विपरिवर्तनं संभवति। न चैका बुद्धिर्नानाक्रमवर्येकवर्णकालव्यापिनी संभवति तस्याः कालान्तरस्यायित्वासंभवात् । बुद्धिजनितसंस्कारः कालान्तरस्थायीति चेत् न , नानावर्णविज्ञानजनितसंस्काराणां क्रमभुवां वर्णस्मरणमजनयतामसत्कल्पत्वात् , जनयतां तु न युगपत स्परणं संभवति, क्रमतो वर्णस्मरणसंभवेऽपि नैकवर्णस्मरणका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org