________________
युक्त्यनुशासनं। ले वर्णान्तरस्मरणमस्ति विरोधात् कुतः स्मर्यमाणानामपि वानां समूहः, तत एव पदस्फोटः पदार्थप्रतिपत्तिनिमित्तं, वर्णानां प्रत्येकमर्थप्रतिपत्तिनिमित्तत्वे वर्णान्तरवैयर्थयप्रसंगात्समृहस्यासंभवात् तबुद्धिस्मरणसमूहवदित्यपरे । तेषामपि पदस्फोटो नित्यो निरंशः सर्वगतोऽमूर्तः किमनभिव्यक्त एवार्थप्रति पत्तिहेतुरभिव्यक्तो वा १ प्रथमपक्षे वर्णोच्चारणानर्थक्यं सर्वदा सर्वत्र सर्वथाऽप्रतिहतार्थपतिपत्तिः प्रसज्येत ! कदाचित् कचित् कथंचिदसंभवाभावात् । द्वितीयपक्षे तु पदस्फोटोऽभिव्य. ज्यमान: प्रत्येकं वर्णेनाभिव्यज्यते वर्णसमूहेन वा? यदि प्रत्येक वर्गोनाभिव्यज्यते तदैकवर्णेन सर्वात्मना तस्याभिव्यक्तत्वात सर्वत्र सर्वथा वर्णान्तरोच्चारणवैयर्थ्य कथं विनिवार्यत? । पदार्थान्तरप्रतिपातिव्यवच्छेदार्थत्वावर्णान्तरोच्चारणस्य न वैययमिति चेत् न , वर्णान्तरोच्चारणादपि पदार्थान्तरप्रति पत्तेरेवानुषंगात् , यथा हि गोरितिपदत्यार्थो गकारोच्चारणास्वतीयेत तथौकारोच्चारणदौशनस इतिपदस्यार्थः प्रतिपद्येताधेन गकारेण गौरिति पदस्येव प्रथममौकारेणौशनस इति पदस्य स्फोटस्याभिव्यक्तेः । तथा च गौरिति पदादेव गौरौ शनस इति वाक्यार्थप्रतिपत्तिः प्रसज्येत, संशयो वा स्यात् । किमेकपदस्फोटाभिव्यक्तये गकारायनेकवर्णोच्चारण पदांसरस्फोटव्यवच्छेदेन, किंवाऽनेकपदस्फोगभिव्यक्तये गकारायनेकवर्णोच्चारणमिति ततो नैकेनैव वर्णेन पदस्फोटस्य सवात्मनाभिव्यक्तिर्घटते । नाऽप्येकदेशेन सांशवप्रसंगात,
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org