SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ टीकासहितं। सांशस्य च स्वांशेभ्योऽनन्तरत्वे नानात्वप्रसंगो नानावयवेभ्योनान्तरस्यैकत्वविरोधात् । एकस्पादनान्तरभूतानां नानावयवानां नानात्वविरोधवत् । स्वांशेभ्योऽर्थान्तरत्वे तस्थानभिव्यक्तिमसक्तिस्ततो भिन्नानामेवांशानां नानावणैरभिव्यक्तित्वात् । यदि पुनर्नानावर्णामिव्यक्तैः पदस्फोटस्यां औरभिव्यक्तिरभिधीयते तदैकवर्णाभिव्यक्तपदस्फोटावयवेन सर्वात्मना पदस्फोटस्याभिव्यक्तौ वर्णान्तराभिव्यक्ततदवयववैयर्थ्यमासज्येत, तस्यैकदेशेनाऽभिव्यक्तौ नानावयवत्वमवयवान्तरैरिति, तेभ्योऽपि तस्यानन्तरत्वार्थान्तरत्वविकल्पयोस्तदेव दूषणमनवस्था च दुर्निवारा स्यात् । यदि वर्णसमूहेन पदस्फोटोऽभिव्यज्यत इति मतं, तदापि क्षणमध्वंसिनां वर्णानां कथं समूहः सिद्धयेत् योऽभिव्यंजकः स्यात्, नित्यानामपि वर्णानामनभिव्यक्तानां समूहो न व्यंजकः सर्वदाभिव्यक्तिप्रसंगात् । अभिन्यक्तानां तु समूहो न संभवत्येव तदेकवर्णामिव्यक्तिसमये वर्णान्तराभिव्यक्त्ययोगात्, व्यक्ताव्यक्तात्मकानां तु वर्णानां समूहो न पदस्फोटस्याभिव्यंजकः स्यात् तदुभयदोषानुषंगात् । __ स्यान्मतं, पूर्वपूर्ववर्णश्रवणज्ञानाहितसंस्कारस्यात्मनोऽन्स्यवर्णश्रवणज्ञानानंतरं पदस्फोटस्याभिव्यक्तेः पदार्थप्रतिपतिरिति । तदप्यसत् । तथैव पदार्थप्रतिपत्तिसिद्धः स्फोटपरिकल्पनानर्थक्यात्। चिदात्मव्यतिरेकेण तत्त्वांतरस्य स्फोटस्यार्थप्रकाशनसामर्थ्यानुपपत्तेः । स एव चिदात्मा विशिष्टशक्तिः स्फो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy