SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ टोकासहित। दयरूपातु न संभवति मोहस्यात्यंतपरिक्षयात्कर्मान्तरवत्, तन्न मदशक्त्या व्यभिचारः साधनस्य, मदजननस्य शक्त्या मद्यांगसमागमेनाभिव्यज्यमानया सत्या कारणया व्यभिचार इति चेत्, न तस्याः सुरांगसमागमकार्यत्वात् , ततः पूर्व प्रत्येकं पिष्टादिषु तत्सद्भावावेदकप्रमाणाभावात् । एतेन मोहोदयनिमितयाऽऽत्मनो मदशक्त्या पराभ्युपगतया व्यभिचारोद्भावनपपास्तं तस्याश्च मोहोदयकार्यत्वात्क्षीणमोहस्यासंभवात् ततो निरवद्यो हेतुश्चैतन्यशक्तनित्यवसायने सदकारणत्वादिति सिद्धः परलोकित्वमनिच्छतां न सती चैतन्यशक्तिरभिव्यइयत इति वक्तव्यं । यदि पुनः प्रागसती चैतन्यशक्तिरभिव्यज्यते तदा (के) प्रतीतिविरोधः सर्वथाप्यसतः कस्यचिदभिव्यक्त्यदर्शनात् । कथंचित्सती वासती वाऽभिव्यज्यत इति चेत, परमतसिद्धिः, कथंचिद्रव्यतः सत्याश्चैतन्यशक्तेः पर्यायतश्चासत्याः कायाकारपरिणतपुद्गलैरभिव्यक्तेरभीष्टत्वात्स्याद्वादिभिस्ततो विप्रलब्धा एव चैतन्यशक्त्यभिव्यक्तिवादिभिः सुकुमारप्रज्ञाः, सर्वथा चैतन्याभिव्यक्तेः प्रमाणबाधितत्वात् । येषां तु भूतसमागमकार्य चैतन्यशक्तिस्तेषां सर्वचैतन्यशक्तीनामविशेषप्रसंगात् प्रतिपाणि बुद्धयादिचैतन्यविशेषो न स्यात् । प्रतिसत्त्वं भूतसमागमस्य विशिष्टत्वात्तद्विशेषसिद्धिरिति बदन्तं प्रति प्राहुः सूरयः-- १ "क" चिहात् 'ख' चिहपर्यन्तः पाठः प्रथमपुस्तके न वर्तते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy