________________
७६
युक्त्यनुशासनं ।
वा ? गत्यंतराभावात् । प्रथमकल्पनायामनादित्वसिद्धिरनंतत्व सिद्धिश्च चेतनाशक्तेः सर्वदा सत्या एवाभिव्यक्तिसिद्धेः । तथा हि — कथंचिन्नित्या चैतन्यशक्तिः सदकारणत्वात्पृथिव्यादिसामान्यवत् न पृथिव्यादिव्यक्तयानेकान्तस्तस्यास्तत्सत्वेऽपि सकारणत्वात्, नाऽपि प्रागभावेन व्यभिचारस्तस्याकारणत्वेऽपि सपत्वासिद्धेस्ततः समुदितो हेतुर्न व्यभिचारी सर्वथा विपक्षावृत्तित्वात् तत एव न विरुद्धो, नाप्यसिद्धः सतोऽभिव्यंयस्य सकारत्वसिद्धेरभिव्यंजकस्याकारणत्वात् । ननु च मद्यांगैः पिष्टोदकादिभिरभिव्यज्यमानाऽपि मदशक्तिः प्राक्सती ननित्याभ्युपेयते ततस्तया सदकारणया व्यभिचार एव हेतोरिति चेत्, न तया अपि कथंचिन्नित्यत्वसिद्धेश्वेतनद्रव्यस्यैव मदशक्तिस्वभावत्वात् सर्वथाऽप्यचेतनेषु मदशक्तेरसंभवात् । मनसो मदशक्तिरिति चेत्, न तस्याप्यचेतनत्वाद्भावमनस एव चेतनस्य मदशक्तिसंभवात् । एतेनेन्द्रियाणामचेतनानां मदशक्तेरसंभवः प्रतिपादितः । भावेन्द्रियाणां तु चेतनानामेत्र मदशक्तिसंभावनायां न किंचिदचेतनद्रव्यं माद्यते नाम मद्यभाजनस्यापि मदप्रसंगात् । न चैवं मुक्तानामपि मदशक्ति: प्रसज्यते तेषां तदभिव्यक्तिकारणासंभवात् । मदशक्तेर्हि वहिरंगकारणमभिव्यक्तौ मद्यादि चेतनस्यात्मनस्तस्या नियतत्वात् । अन्तरंग तु कारणं मोहनीयाख्यं । न च मुक्तानां तदुभयकारणमस्ति यतस्तेषां मदशक्तेरभिव्यक्तिः स्यात् । तत्रानभिव्यक्ता मदशक्तिरस्त्विति चेत्, सा यदि चैतन्यद्रव्यरूपा तदास्त्येव, मोहो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org