SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ युक्त्यनुशासन दृष्टेऽविशिष्टे जननादिहेतो विशिष्टता का प्रतिसत्त्वमेषाम् । स्वभावतः किं न परस्य सिद्धि रतावकानामपि हा प्रपातः॥३६॥ टीका-दृष्ट एवाविशिष्टे हेतौ पृथिव्यादिसमुदये तन्निमिचे वा शरीरेन्द्रियविषयसंज्ञेऽभ्युपगम्यमाने दैवसृष्टेरनभ्युपगमात् का नाम विशिष्टता सत्त्वं सत्रं प्रति भूतसमागमस्या स्यात् , न काचिद्विशिष्टता संभवतीत्यर्थः । स्वभावत एवं विशिष्टभूतानामिति चेत् , (ख) पदम्याऽपि पृथिव्यादिभूतेभ्योऽन्यस्यापि पंचमस्यात्मतत्त्वस्य सिद्धिः किं न स्यात कि भूतकार्यचैतन्यवादेन ? __ स्यान्मतं, कायाकारपरिणतभूतकार्यत्वाच्चैतन्यस्य स्वभावतः सिद्धिस्तर्हि भूतानि किमुपादानकारणं चैतन्यस्य सह कारिकारणं वा ? ययुपादानकारणं तदाचैतन्यस्य भूतान्वयः असंगः सुवर्णोपादाने किरीटादौ सुवर्णान्वयवत् । पृथिव्यायु. पादाने वा काये पृथिव्याद्यन्वयवत् । प्रदीपोपादानेन कज्जलेन भदीपानन्वितेन व्यभिचार इति चेत्, न कजलस्य प्रदीपोपादानत्वासिद्धेः। प्रदीपज्वाला हि प्रदीपज्वालान्तरस्योपादानं नकज्जलस्य, तस्य तैलवयुपादानत्वात, प्रदीपकलिकां सहकारिणीमासाद्य तैलं कन्जलरूपेण परिणमदृय गच्छदुपलभ्यते । न च तत्तैलान्वितं रूपादिभिः समन्वयदर्शनात् । एकस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy