SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ : टीकासहितं। को हि स्वयमकल्पकं प्रत्यक्षं तदविनामाविलिंगं च प्रतिपद्यमानः प्रत्यक्षमकल्पकं न प्रतिपद्येत । प्रतिपद्यमानस्यापि विपरीतसमारोपसंभवाराज्ज्ञापनमनुमानेन नानर्थकमिति चेत् , न, समारोपव्यवच्छेदेपि पर्यनुयोगस्य समानत्वात् । किं प्रतिपन्नसाध्यसाधनसंबंधस्यानुमानेन समारोपव्यवच्छेदः साध्यते, स्वयमप्रतिपन्न साध्यसाधनसंबंधस्य वेति ? न तावत्प्रथमः पक्षः, समारोपस्यै वासंभवात् । स्वयं प्रत्यक्षमकल्पकं तदाविनाभाविसाधनं च पतिपद्यमानस्य समारोपे परेण प्रत्यायनेऽपि तस्य समारोपप्रसंगात् । नाऽप्यप्रतिपन्नसाध्यसाधनसंबंधस्य साधनप्रदर्शनेन समारोपव्यवच्छेदनं युक्तमतिप्रसंगात् । यदि पुनर्ग्रहीतविस्मृतसंबंधस्य साध्यसाधनसंबंधस्मरणकारणात्समारोपो व्यवच्छिद्यत इति मतं, तदप्ययुक्तम् । संबंधग्रहणस्यैवासंभवात, स्वयमविकल्पकप्रत्यक्षानिश्चये तत्स्वभावकार्यानिश्चये च तत्संबंधस्य निश्चेतुमशक्तः । परतो निश्चयात्तनिश्चये तस्वरूपस्यापि निश्चयान्तरानिश्चयप्रसंगादनवस्थानात् । निश्चयस्त्ररूपानिश्चये ततोकल्पकप्रत्यक्षव्यवस्थानानुपपत्तेः सर्वथा तस्य ज्ञापयितुमशक्तः कुतः सिद्धिः स्यात् ? बिना च सिद्धेर्न च लक्षणार्थः संभवति "कल्पनापोढमभ्रान्तं प्रत्यक्ष मिति लक्षणमस्यार्थः प्रत्यक्षप्रत्यायनं, न च प्रत्यक्षस्य सिद्धविना तत्पत्यायनं कत्तुं शक्यमिति नैव लक्षणार्थः कश्चित्संगच्छते । ततो न तावकद्वेषिणि वीर ! सत्यं सर्वथा संभवति । तयाऽयं तावकः स चासौ द्वेषी चेति तावकद्वेषी तावकशत्रुरित्य Jain Education International For Private & Personal Use Only ____www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy