________________
युक्त्यनुशासनं। धर्मिधर्मात्मकवस्तुप्रतिभासितपृष्टभाविविकल्पनज्ञानोत्थं धर्मों धर्मोऽयमिति धर्मिधर्मव्यवहारस्य प्रवृत्तेस्तेन च सकलकल्पनापोडेन प्रत्यक्षेण निरंशस्वलक्षणस्यादर्शनमसिद्धं कथं तद' भावं साधयेदिति बदन्तं प्रत्याहुः-- प्रत्यक्षनिर्देशवदप्यसिद्ध
मकल्पकं ज्ञापयितुं शक्यम् । विना च सिद्धेन च लक्षणार्थों
न तावकद्वेषिणि वीर ! सत्यम् ॥३३॥ टीका-प्रत्यक्षेण निर्देशः प्रत्यक्ष निर्देशा, प्रत्यक्षतो दृष्ट्वा नीलादिकमिदमिति वचनमन्तरेणांगुल्या प्रदर्शनमित्यर्थः । स प्रत्यक्ष निर्देशोऽस्यास्तीति प्रत्यक्षनिदेशवत् । तदर सिद्धं । कुत एतत् , यस्मादकल्पकं ज्ञापयितुं कुतश्चिदम. शक्यं, हि यस्मादर्थे । तेनेदमुक्तं भवति-यस्मादकल्पकं कल्पनापोटं, न विद्यते कल्पः कल्पनाऽस्मिन्निति विग्रहात् , तद् झापयितुं संशयितेभ्यो विनेयेभ्यः प्रतिपादयितुं न शक्यं, तस्माप्रत्यक्षनिर्देशवदपि तत्त्वमिदपसिद्धमिति । तद्धि प्रत्यक्षमकल्पकं न तावत्प्रत्यक्षतो ज्ञापयितुं शक्यं तस्य परासंवेद्यत्वात् । नाऽप्यनुमानात्तत्मतिबद्धलिंगप्रतिपत्तेरसंभवात्परेषामगृहीतलिंगलिंगिसम्बंधानामनुमानज्ञानेन ज्ञापयितुमशक्तेः । स्वयंप्रतिपन्नकल्पनापोहप्रत्यक्षप्रतिबद्धलिंगानां तु तज्ज्ञापनानर्थक्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org