________________
टीकासहितं। त्यनेन नासदेव तत्त्वं दृष्टमिति व्याख्यातं चशब्दस्य समुच्चयार्थत्वात् । परस्परनिरपेक्षं सत्त्वमसत्तत्त्वं न दृष्टमिति घटनासेन न परस्परनिरपेक्षं सदसत्तत्वं संभवति सर्वप्रमाणतो दृष्टत्वात्सन्मात्रतत्त्ववदसन्मात्रतत्ववद्वेति प्रतिपादितं प्रतिपत्तव्यं । तथा न सन्नाप्यसन्नोभयं नैकं नानेकमित्यादयशेषधर्मप्रतिषेधगम्यमात्मान्तरं परमब्रह्मतत्त्वमित्यपि न संभवति। कदाचित्तथैवादर्शनादिति न दृष्टमेकमात्मान्तरं सर्वनिषेधगम्यमिति व्याख्यातव्यं । तदेवं सच्चासत्चविमिश्रं परसरापेक्ष तत्त्वं दृष्टमित्यनेन सदसदादेयकांतव्यवच्छेदेन सदसदादयनेकान्तत्वं साध्यते, तदुपाधिभेदात् । उपाधिर्विशेषणं स्वद्रव्यक्षेत्रकालभावाः परद्रव्यक्षेत्रकालभावाश्च तद्भदादित्यर्थः । तेनेदमुक्तं भवति-स्यात्सदेव सर्व तत्वं स्वरूपादिचतुष्टयात्, स्यादसदेव सर्व तत्वं पररूपादिचतुष्टयात् , स्यादुभयं स्वपररूपादिचतुष्टय द्वैतक्रमार्पितात् , स्यादवाच्यं सहार्पिततद्वैतात्, स्यात्सदवाच्यं स्वरूपादिचतुष्टयादशक्तः, स्यादसदवाच्यं पररूपादिचतुष्ट पादशक्तेः, स्यात्सदसदवाच्यं क्रमाप्तिस्वपररूपादिचतुष्टयद्वैतात्सहार्पिततद्वैताच्च । इत्येवं तदेव सदसदादिविमिश्रं तवं दृष्टमिति वस्तुनोतिशायनेन किंचित्सत्यानृतं किंचिदनृतानृतं वचनं तवैव युक्तम् । त्वत्तो महर्षेरन्येषां सदायेकान्तवादिनां स्वप्नेपि नैतत्संभवतीति वाक्यार्य: प्रतिपत्तव्यः।
ननु च निर्विकल्पकं प्रत्यक्ष निरंशवस्तुप्रतिभास्येव न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org