SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ युक्त्यनुशासनं । र्थः । तस्मिन्न सत्यं वीर ! भगवन्निति व्याख्यानं । अथवा तवेदं मतं तावकं तद् द्वेषीति तावकद्वेषी सदाद्ये कान्तवादस्तस्मिन्न सत्यमेकांततः साधयितुं शक्यत इति व्याख्येयं । यथा सत्यं न संभवति तथा कर्त्ता शुभस्याशुभस्य वा कर्मणः, कार्य च शुभमशुभं वा तद् द्विषां न घटत इति प्रतिपादयति-कालान्तरस्थे क्षणिके ध्रुवे वाऽपृथक्पृथक्त्वावचनीयतायाम् । विकारहानेर्न च कर्त्तृकार्ये वृथा श्रमोऽयं जिन ! विद्विषां ते॥ ३४ ॥ टीका - वस्तुनो जन्मकालादन्यः कालः कालान्तरं तत्र तिष्ठतीति कालांतरस्थं तस्मिन्वस्तुनि प्रतिज्ञायमानेऽपि न कर्त्ता कश्चिदुपपद्यते, क्षणिके ध्रुवे वा । वाशब्द इवार्थस्तेनेदमुक्तं भवति, यथा क्षणिके निरन्वयविनाशिनि वहिरन्तश्च वस्तुनि न कर्त्ताऽस्ति क्रपयौगपद्यविरोधःत् क्रियाया एवासंभवात् । यथा च ध्रुवे कूटस्थे नित्ये निरतिशये पुरुषे सति न कर्त्ता विद्यते तथा कालांतरस्थेपि अपरिणामिनि पदार्थे न कश्चित्क र्त्ता संभवति, कर्तुरभावे च न कार्य स्वयं समीहितं सिध्यति कर्तृनान्तरीयकत्वात्कार्यस्येति । कुत एतदिति चेत्, विकारहार्विकारः परिणामः स्वयमवस्थितस्य द्रव्यस्य पूर्वाकारपरित्यागाजहदुत्तरोत्तराकारोत्पादस्तस्य हाfarararaat विकारहानेरिति हेतुनिर्देशः । विकारो हि विनिवर्त्तमान: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy