SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ टीकासहितं। विना भगवन् ! आर्य ! वीरभट्टारक ! मे नैव श्रायसं किंचित् संभवति यतः प्रमाणेन परीक्ष्यमाणमिति प्रत्येयं । तद्विसंविदद्वैतरूपं निर्वाणं प्रत्यक्षबुद्धिबोध्यं लिंगगम्यं वा, परार्थानुमानवचनप्रतिपाद्यं वा स्याद्गत्यंतराभावान च तत्र प्रत्यक्षादिप्रमाणं संभवतीति प्रतिपत्यभावमेव साधयत्याचार्याःप्रत्यक्षबुद्धिः क्रमते न यत्र तल्लिंगगम्यं न तदर्थलिंगम्। वाचो न वा तद्विषयेण योगः का तद्गतिः कष्टमशृण्वतां ते॥२२॥ टीका-यत्र संविदद्वैते तत्त्वे प्रत्यक्षबुद्धिन क्रमतेन प्रवर्तते कस्यचित्तथा निश्चयानुत्पत्तेस्तल्लिंगगम्यं स्यात्स्वर्गपापणशक्त्यादिवत् । न च तत्रार्थरूपं लिंग संभवति तत्स्वभावलिंगस्य तद्वद प्रत्यक्षबुद्धथतिक्रान्तत्वाल्लिंगान्तरगम्यत्वेऽनवस्थानुषंगाचत्कार्यलिंगस्य वा संभवात् संभवे वा द्वैतप्रसंगात् । न च वाचः परार्थानुमानरूपायास्तद्विषयेण संविदद्वैतरूपेण योगः परंपरयापि संबंधायोगात, ततः का तस्य तत्त्वस्य गतिर्न काचित् । प्रत्यक्षा लैंगिकी शाब्दी वा प्रतिपत्तिरस्तीति कष्टं दर्शनं ते तव शासनभशृण्वतां ताथागतानामिति ग्राह्यं । संवृत्या तत्पतिपत्तिन कष्टमिति अन्यमानान्प्रत्याहु: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy