SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ युक्त्यनुशासनं । रागाद्यविद्यानलदीपनं च विमोक्षविद्यामृतशासनं च। न भिद्यते संवृतिवादिवाक्यं भवत्प्रतीपं परमार्थशून्यम्॥२३॥ टीका-यथैव हि रागाधविद्यानलस्य दीपनं च वाक्यं "अग्निष्टोमेन रजेत सर्गकामः" इत्यादिकं संकृतिवादिनां सौगतानां परमार्थशून्यं तथा विमोक्षविद्यामृतस्य शासनमपि बाक्यं “सम्यग्ज्ञानवेतृभावनातो निःश्रेयस" मित्याद्यपि, ततो न भिद्यते परमार्थशून्यत्वाविशेषात् । परमार्थशून्यत्वं तु तद्वाक्यस्य भवत्पतीपत्वत् सर्वथैकान्तविषयतयैवोपगतत्वात् । भवतो हि वीरस्यानेकान्नशासनस्य न विचिद्वाक्यं सर्वथा परमार्थशून्यं रागाध वद्यानलदीपनस्यापि वाक्यस्य बंधकारणलक्षणेन परमार्थेनाशून्यत्वात्, विमोक्षविद्यामृतशासनम्येव व क्यस्य मोक्षकारणरूपेण परमार्थनेति तात्पर्यार्थः। ननु च संवृतिवादिनोऽपि श्रुतपयी चिन्तामयीच भावना प्रकर्षपर्यन्तं प्राप्ता यांगिन प्रत्यक्षसंविदद्वयं प्रसूते, गुरुणोपदिटायाः कस्याश्चिदविद्यायाः प्रकृष्टविद्याप्रसून्यै स्वयं शील्यमानायाः संभवाविरोधादिति च प्रतिपद्यमानान्प्रति प्राहुः-- विद्याप्रसूत्यै किल शील्यमाना, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy