SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ युक्त्यनुशासनं । ग्याऽनवेद्यमनंगसंज्ञत्वात् । यद्धि सर्वथाऽनालाप्यं तत्रांगसंज्ञासंकेतोऽपि न प्रवर्त्तते । न चासंकेतितांगसंज्ञा कचिद्वित्तिनिमित्तं शब्दवदिति च ये प्रतिपद्यते तेषां त्वद्विषां संविदद्वैतवादिनामवाकयमेव तवं वाच्यं स्यात्, नैव स्यादिति काका व्याख्यातव्यम् तेषां मौनमेव शरणं स्यादिति यावत् । तदेवं सौगतमतमुपहासास्पदमेवेति निवेदयंतिअशासदञ्जांसि वचांसि शास्ता, शिष्याश्च शिष्टा वचनैर्न ते तैः । अहो इदं दुर्गतमं तमोऽन्यत् त्वया विना श्रायसमार्य किं तत् ॥ २१॥ टीका - शास्त्रा सुगत एवाश सदनवयानि वचांसि यथार्थदर्शनादिगुणयुक्तत्वान्न च तैर्वचनैः शिष्यास्ते प्रतिपादिता इतीदमहो दुर्गतमं साश्वर्यमन्यतमः स्यात् कृच्छ्रतमेनाधिगम्यत्वात् । तच्चानुशासनं हि सति शास्तरि गुणवति प्रतिपाद्येभ्यस्तत्वप्रतिपत्सियोगेभ्यः सत्यैरेव वचनैः प्रसिद्धं । तत्र सुगते शास्तरि प्रसिद्धेपि सौगतानां तद्वचनेषु च सत्येषु संभवत्सु शिष्याः सन्तोऽपि प्रतिमनसो न शिष्टा इति कथममोहः प्रतिपद्येति प्रेक्षावतामुपहासास्पदमिदं दर्शनमाभासते । ze स्यान्मतं - संवृत्या शास्तृशिष्यशासनतदुपायवचन सद्भा वानोपहासास्पदमेतत्परमार्थतः संविदद्वैतस्य निःश्रेयसलक्षणक्ष्य प्रसिद्धेरिति, तदप्यसत् । त्वया स्याद्वादन्यायनाय केन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy