________________
.४७
टोकासहितं । स्यात् । नहि जात्यादिशब्देस्तन्निगद्यते जातिद्रव्यगुणक्रियादिकल्पनाभिरपि शून्यत्वात् नापि यहच्छाशदेन तत्र तस्य संकेतथितुमशक्तेः संकेतहेतुविकल्पेनाऽपि शून्यत्वादिति सुषुप्तौ याऽवस्था संवेदनस्य सा स्यात्तत्वस्य । ततः सुषुप्त्यवस्थमेतत् सर्वथा विकल्पाभिलापशून्यत्वाभ्युपगमाद्भवदुक्तिवाद्यं भवतो वीरस्योक्तिः स्याद्वादस्ततो वाह्य सर्वथैकान्ततत्त्वमित्युच्यते । विज्ञानार्थपर्यायादेशाद्धि विज्ञानार्थतत्त्वं सकलविकल्पाभिला. पविकलमजुत्रनयावलंबिभिरभिन्यते व्यवहारनयायिभिर्विकल्पाभिलापास्पदमिति स्याद्वादाश्रयणे तत्त्वं न भवक्तितो वाह्य स्थादित्यर्थागम्यते । पुनरपि परमतमन्ध दूषयितुमाहुगचार्या:मूकात्मसंवेद्यवदात्मवेद्यं,
तम्लिष्टभाषाप्रतिमप्रलापम् । अनंगसंज्ञं तदवेद्यमन्यैः
स्यात् , त्वद्विषां वाच्यमवाच्यतत्त्वम्॥२०॥ __. टीका-यथा मूकस्यात्मसंवेद्यं स्वसंवेदनं तथात्मसंवेद्यमेव संविदद्वैतं न च त्मसंवेद्यमिति शब्देनाऽपि तत्त्वमभिलप्यते तत् कुतो यतो म्लिष्टा अस्पष्टा भाषा मूक भाषेत्र तत्पतिमः प्रलापो निरर्थको यस्मिंस्तम्लिष्टभाषाप्रतिमप्रलापं न पुनरभिलाप्यं ततस्तदवेद्यमेवान्यैः प्रतिपारिति मन्यते केचित् । यथा चामिलापास्तदवेधमन्यैस्तथांगसंज्ञयाऽपि सूचीहस्तलक्ष
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org