SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ३६ युक्त्यनुशासनं । समानत्वेन हेतुना साध्यते, तदापीदमनुमानं वचनात्मकं परार्थप्रतिभासमानमपि न विज्ञानमात्रं ततोऽन्यत्वादिति व्यभिचारदोषः प्रकृतहेतोः स्यादेव । साध्ये विज्ञानमात्रात्मकत्वे साधनस्य साध्यतमत्वानुषंगात्तत एव समाध्यवस्थायां प्रतिभासमानं संवेदनाद्वैतं तत्त्वमस्तु स्वरूपस्य स्वतोगतेरिति व न सुभाषितं तस्य परवादिनामसिद्धत्वात् । 1 न हि योगिनो गम्यं परवादिनां सिद्धं नामेति स्वगृहमान्यमेतत् । किं चेदं संवेदनाद्वैतं नानासंवेदनवत् न स्वस्य सिद्धं न च परस्मै प्रतिपाद्यमिति निवेदयन्ति । तत्त्वं विशुद्धं सकलैर्विकल्पैविश्वाभिलापास्पदतामतीतम् । न स्वस्य वेद्यं न च तन्निगद्यं सुषुप्त्यवस्थं भवदुक्तिवाह्यम् ॥ १९ ॥ टीका - कार्यकारण ग्राह्यग्राहक वास्यवासकसाध्यसाधनवाव्यबाधकवाच्यवाचकभावादिविकल्पैः सकलैर्विशुद्धं शून्यं तद्विज्ञानाद्वैत तत्त्वं न स्वस्य वेद्यं । संहृतसकल विकल्पावस्थायामपि योगिनो ग्राह्यग्राहकाकारविकल्पात्मनः संवेदनस्य प्रतिभासनात् नापि तं निगदितुं शक्यं । विश्वाभिलापास्पदतामतीतत्वाद् विश्वे च तेऽभिलापाश्च विश्वाभिलापा विश्वाभिलापा जातिगुणद्रव्यक्रियायदृच्छा शब्दास्तेषामास्पदमाश्रयो विश्वाभिलापास्पदं तस्य भावो विश्वाभिलापास्पदता तामतीतं तत् कथमिव निगद्यं परस्मै Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy