SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ टोकासहितं। ससाधना निःसाधना वा ? ससाधना चेत्साध्यसाधनबुद्धिः सिद्धा । सा चानथिकाऽर्थवती वास्यात् ? प्रथमपक्षे द्वितीयपक्षे च दूषणान्यभिदधते सूरयः-- अनर्थिका साधनसाध्यधीश्चे विज्ञानमात्रस्य न हेतुसिद्धिः। अथार्थवत्त्वं व्यभिचारदोषो नयोगिगम्यं परवादिसिद्धम् ॥१८॥ टीका-विज्ञानपात्रं हि तत्त्वं परवादिनोऽनुमानादेव प्रत्याययेयुः स्वसवेदनप्रत्यक्षेण तेषां प्रत्याययितुमशक्तेः । तच्चानुमानं-यत्सतिभासते तद्विज्ञानमात्रमेव यथा विज्ञानस्वरूपं प्रतिभासते च नीलसुखादिकमिति । न चाविज्ञानं प्रतिभासते जडस्य प्रतिभासायोगादिति पक्षे बाधकप्रमाणमनुमानसमर्थन मसमर्थितस्यासाधनत्वादिति। तत्रेदमनुमानं साधनं विज्ञानमात्रं साध्यमिति साध्यसाधनधीर्यद्यर्थिका तदा विज्ञानमात्रस्य तत्वस्य यो हेतुःसाधनं तस्य सिद्धिर्न स्यात्स्वप्नोपालंभसाधनवत् । अथार्थवत्वमेव तस्याः साध्यसाधनबुदेस्तदाऽनयैव व्यभिचार: प्रकृतहेतोः सर्व ज्ञानं निरालंबनं ज्ञानत्वादित्येतत्परं प्रति वक्तुं युक्तं न स्यात् स च महान् दोषः परिहर्तुमशक्यत्वात् । यथैव हीदमनुमानज्ञानं स्वसाध्येनावलंबनेन सालबनं तथा विवादाध्यासितमपि ज्ञानं सालंबनं किं न भवेदिति सेंशयकरत्वात् । यदापि विज्ञानमात्र सर्वस्य वस्तुनः प्रतिभा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy